सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 134, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 134

चतुर्थोऽङ्कः । ११७
राजा—नाहं प्रसादयितव्यस्त्वया । स्वदर्शनेन प्रसन्नो मे
सबाह्यान्तरात्मा । तत्कथय कथमियन्तं कालं मया विरहिता
स्थितासि ।
(अन्तरे चर्चरी ।)
मोरो परहुअ हंस रहङ्ग
अलि गअ पव्वअ सरिअ कुरङ्गम् ।
तुज्झह कारणे रण्ण भ्रमन्ते
को ण हु पुच्छिअ मइ रोअन्ते ॥ ७० ॥
उर्वशी—अन्तःकरणपच्चक्खी विदवृत्तन्तो महाराओ ।
राजा—प्रिये, अन्तःकरणमिति न सम्यगवगच्छामि ।
उर्वशी—सुणादु महाराओ । पुरा भगवदा महासेणेण सा-
१ मयूरः परभृत्को रथाङ्गोऽ
द्विरदः पर्वतः सरित्कुरङ्गः ।
तव कारणादरण्ये भ्रमता
को न खलु पृष्टो मया रुदता ॥
२ अन्तःकरणप्रत्यक्षीकृतवृत्तान्तो महाराजः ।
३ शृणोतु महाराजः । पुरा भगवता महासेनेन शाश्वतं कुमार-
न मया कारणात्तवावस्था इति नास्ति पाठान्तरम् । अस्मिन्नवसरेऽग्रेऽयं प्रमाद-
पाठः परदृश्यते । मयूरः परभृत्को रथाङ्गाऽलिद्विजः पर्वतः सरित्कुरङ्गः ।
तव कारणादरण्ये भ्रमन्ता को न खलु पृष्टो मया रुदता ॥ इति विरहितम् इति
पाठ इव दृश्यत ऐतिहासप्रचण्डत्वाद् इति च ॥ उर्वशी । अन्तःकरण
प्रत्यक्षीकृतवृत्तान्ता महाराजः । उर्वशी । शृणोतु महाराजः । पुरा भगवता
महासेनेन शाश्वतं कुमारव्रतं गृहीत्वा मन्दरनामानं गन्धमादनपर्वतोपकण्ठं
श्रितः । मन्दरसमन्तात् स्थानमपि कण्ठकण्ठधारिष्विति विख्यातं । कृतश्च