सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 128, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 128

चतुर्थोऽङ्कः । ११५
(नेपथ्ये ।)
वत्स, गृह्यतां गृह्यताम् ।
संगमनीयो मणिरिह शैलसुताचरणरागयोनिरयम् ।
आवहति धार्यमाण संगममाशु प्रियजनेन ॥ ६४ ॥
राजा-(ऊर्ध्वमवलोक्य।) को मामनुशास्ति । (विलोक्य।) कथं
भगवान्मृगराजधारी । भगवन्, अनुगृहीतोऽस्म्यमुनोपदेशेन ।
(मणिमादाय ।) अहो संगममणे,
तया वियुक्तस्य निमग्नमध्यया
भविष्यसि त्वं यदि संगमाय मे ।
तत करिष्यामि भवन्तमात्मन
शिखामणि बालमिवेन्दुमीश्वरः ॥ ६५ ॥
(परिक्रम्यावलोक्य च ।) अये, किं नु खलु कुसुमरहितामपि लतामिमां
पश्यतो मया रतिरुपलभ्यते । अथवा स्थाने मम मनो रमते ।
इयं हि—
तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते
चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥ ६६ ॥
यावदस्यां प्रियानुकारिण्यां लतायां परिष्वङ्गप्रणयी भवामि ।
१ एए पेक्ख विणु हिअए भमामि
जइ विहिजोएण पुणि तहि पाविसि ।
१ एते प्रेक्षस्व विना हृदयेन भ्रमामि
यदि विधियोगेन पुनस्तां प्राप्स्यामि ।
रुद्राक्षवृक्षरूपधरेण सुमेरुशिखावासिना शुकश्रेष्ठेनाख्याम् । अभूदरत रुन्ध्याद्रि-
र्म्या ॥ ६४ ॥ संगमनीय इति । संगमनीयसंज्ञा। आवहति करोति० ॥ ६४ ॥ तदयमिति ।
निमग्नमध्ययाऽतिसूक्ष्मावलग्नया ॥ ६५ ॥ तन्वीति । चण्डी कोपना । चण्डी तु
कार्तिकी हिंस्त्रा कोपनाऽथिरिति सागरः ॥ ६६ ॥ ततो द्रुतपद—एए पेक्खेति ।
वि० ११