विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 97, कुल 493 में से
संदर्भ में पढ़ें( ७४ )
अन्वयः
यस्य पुरः चिन्तामणिः वराकः तथाहि इयं वार्त्ता जनविश्रुता यत् तत्र
सौवर्णतुलाधिरूढे (सति) सः पाषाणतुलाधिरोहं चक्रे ।
व्याख्या
यस्य राज्ञः पुरः समतायां चिन्तामणिर्नामानर्घ्यं रत्नं वराकोऽगण्यो दैन्य-
मेवाऽवलम्बते । राजापेक्षया नातिशयचमत्कारित्वेन प्रभावशून्यत्वात् । तथाहि
यत इयं वार्त्ता जनेषु विश्रुता विख्याताऽऽसीत् । यदित्यनेनोत्तरार्द्धोंक्तवाक्यार्थ-
परामर्शः । तत्र राज्ञि सुवर्णतुलापुरुषदानार्थं सौवर्णी तुलेति सौवर्णतुला
तस्यामधिारूढे स्थिते सति स चिन्तामणिः पाषाणेन सह तुला साम्यं तस्यामघिरोहं
स्थितिं, रत्न-तोलन-तुलायां वा स्थिति चक्रे । अस्य राज्ञः सुवर्णेन तुलना
चिन्तामणेस्तु पाषाणेन तुलनेत्यर्थपरामर्शाच्चिन्तामणेर्दैन्यमेव । अय च स
चिन्तामणिरभीष्टवस्तुचिन्तयाऽभीष्टवस्तुप्रदाता । अयं राजा तु चिन्तां विनैव
सर्वाभीष्ट दातेति भावः । उपमानस्य चिन्तामणे राजरूपोपमेयापेक्षयाऽपकर्ष-
प्रतिपादनाद्व्यतिरेकालङ्कारः । 'उपमानायदन्यस्य व्यतिरेकस्सएव सः' ।
भाषा
जिस राजा की समता में चिन्तामणि रत्न भी किसी महत्व का नहीं था ।
इसीलिये यह बात लोक प्रसिद्ध है कि सुवर्ण पुरुष के दान में राजा सोने की
तुला पर चढ़ता था किन्तु चिन्तामणि पत्थर (रत्न) तौलने की तुला पर
तोला जाता था अर्थात् चिन्तामणि की तोल पत्थरों से होती थी और
राजा की सोने से। ( चिन्तामणि अभीष्टवस्तु की याचना करने पर
अभीष्ट वस्तु देता है किन्तु यह राजा बिना याचना के ही अभीष्ट वस्तु
देता था) ।
विधाय रूपं मशकप्रमाणं भयेन कोणे क्वचन स्थितस्य ।
कलेरिवोत्सारणकारणेन यो यागधूमैर्भुवनं रुरोध ॥६६॥
अन्वयः
यः भयेन मशकप्रमाणं रूपं विधाय क्वचन कोणे स्थितस्य कलेः
उत्सारणकारणेन इव यागधूमैः भुवनं रुरोध ।