सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 96, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 96

( ७३ )
र्त्तिविनिमयो वोऽर्थानां स्यात्समासोक्तिरिति लक्षणात् । धारा शब्दस्य धारानगरी,
खड्गधारा जलधारा चेत्यर्थत्रयबोधाच्छ्लेषोऽलङ्कार, अतः सङ्कर ।
भाषा
जिस राजा की तलवार, युद्ध में विजयरूपी अमृत का पान कर अवश्य
मदोन्मत्त हो गई थी ! क्यों कि उसने केवल एक धारा नगरी को लेकर या
एक धारा रखते हुवे कीर्ति की हजारो धाराओ को बहाया ।
शतक्रतोर्मध्यमचक्रवर्ती क्रमादनेकक्रतुदीक्षितोऽपि ।
ऐन्द्रात्पदादभ्यधिके पदे यस्तिष्ठन्न शङ्कास्पदतामयासीत् ॥६७॥
अन्वयः
मध्यमचक्रवर्ती क्रमात् अनेकक्रतुदीक्षितः यः ऐन्द्रात् पदात् अभ्यधिके
पदे अपि तिष्ठन् शतक्रतोः शङ्कास्पदतां न अयासीत् ।
व्याख्या
मध्यमचक्रवर्ती मध्यमलोकस्य भूलोकस्य चक्रवर्ती सार्वभौम क्रमात्परि-
पाट्याऽनेकेष्वश्वमेधेषु क्रतुषु यज्ञेषु दीक्षित सञ्जातदीक्ष यो राजा ऐन्द्रात्पदादिन्द्र-
पदापेक्षयाऽभ्यधिकेऽधिकगुणे पदेऽपि स्थानेऽपि तिष्ठन्तमासीनः शतक्रतोरिन्द्रस्य
शङ्कास्पदता सन्देहस्थानं नाऽयासीन्न प्राप्तः । तस्याऽसंख्यक्रतुसम्पादनेनाऽपि
शतक्रतुर्भयभीतो न बभूव यतस्तेनैव तदुत्पादनार्थं ब्रह्मा प्रार्थित आसीत् ।
शङ्काकारणसत्त्वेऽपि शङ्कारूपकार्याभावप्रतिपादनाद्विशेषोक्तिरलङ्कारः ।
भाषा
पृथ्वी के सम्राट् आहवमल्लदेव के धीरे २ अनेक यज्ञों के करने से इन्द्र
पद से भी उच्चपद पाने की योग्यता हो जाने पर भी इन्द्र के मन में उसके
सम्बन्ध में कोई शङ्का उत्पन्न न हुई । (क्योंकि इन्द्र की प्रार्थना से ही यह
चालुक्य वंश ब्रह्मा ने उत्पन्न किया था ।)
चिन्तामणिर्यस्य पुरो वराकस्तथाहि वार्ता जनविश्रुतेयम् ।
यत्तत्र सौवर्णतुलाधिरूढे चक्रे स पाषाणतुलाधिरोहम् ॥६८॥