सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 64, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 64

( ३९ )
व्याख्या
निजवंशजानां स्वकुलोत्पन्नानां राज्ञां भोगायोपभोगाय धरित्रीं पृथ्वीं वैपुल्य-
विशेषं भजतीति वैपुल्यविशेषभाक् तां विशालक्षेत्रां कर्तुं सम्पादयितुं केयूरैरङ्गदै
'केयूरमंगदं तुल्ये' इत्यमरः । संक्रान्तानि प्रतिबिम्बितानि विमानानि गगन
उड्डीयमानानि व्योमयानानि 'व्योमयानं विमानोऽस्त्री' इत्यमरः । तेषां भङ्गया
व्याजेन भुजाभ्यामुद्धता क्ष्माभृतः पर्वता राजानश्च येन स भुजोपरि समुत्क्षिप्त-
महीधर इवेक्ष्यमाणो दृश्यमानः सुभटः प्रादुरासीदित्यग्रे सम्बन्धः । पर्वतैरथवा
राजभिराक्रान्तां पृथ्वीं स्ववंशजानां भोगायाऽल्पतरां मत्वा तानुत्क्षिप्य समतलां
निष्कण्टकां विशालाञ्च धरा चिकीर्षुरित्यर्थः । नेमे विमानाः किन्तु क्ष्माभृत
इति भङ्गि शब्देन प्रतिपादनादाक्षेप॑पह्नुतिस्तन्मूला विमानोपरि क्ष्माभृतामुत्प्रेक्षा ।
अत द्वयोरङ्गाङ्गिभावसंकरः ।
भाषा
अपने वंश में होने वाले राजाओं के उपभोग के लिये पृथ्वी पर अधिक
स्थान बढ़ाने के ध्येय से, भुजा के आभूषण विजावट में प्रतिबिम्बित, आकाश
में उड़ने वाले विमानों की परछाई के मिष से मानो भुजाओं से पहाड़ों को
या विपक्षी राजाओं को हटाकर दूर फेंक देने के लिये उठाए हुए के ऐसा दिखाई
देने वाला (वीर ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।)
अखर्वगर्वस्मितदन्तुरेण विराज मानोऽधरपल्लवेन ।
समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसि ॥५०॥
अन्वयः
अखर्वगर्वस्मितदन्तुरेण अधरपल्लवेन विराजमानः क्षीरविपाण्डुराणि
द्विषतां यशांसि सद्यः पीत्वा समुत्थितः इव ।
व्याख्या
अखर्वो महान् गर्वो दर्पस्तेन यत्स्मितं शुभ्रवर्ण-गर्वहेतुकमीषद्धास्य तेन
दन्तुर उन्नताग्रतः 'खर्वो ह्रस्वश्च वामनः इति । 'दन्तुर तून्नतानतम्' इति
वाग्भटः । तेनाऽधरः अधरोष्ठः पल्लव इवेत्यधरपल्लवस्तेन विराजमानः
सुशोभितः क्षीरवद्दुग्धवद्विपाण्डुराणि शुभ्राणि द्विषतां शत्रूणां यशांसि सद्यः पीत्वा