विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 474, कुल 493 में से
संदर्भ में पढ़ें( ३ )
श्लोकः
महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥६५॥
एषा भगवती केन भज्यते भवितव्यता ॥६७॥
त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥११०॥
किं लक्ष्मीसुखमुग्धानामसम्भाव्यं दुरात्मनाम् ॥१११॥
राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥
पञ्चमसर्गे—
किं न सम्भवति चर्मचक्षुषां कर्म लुब्धमनसाममात्रिकम् ॥५॥
अप्रतर्क्यभुजवोर्यशालिनः सङ्कटेप्यगहनास्तथाविधाः ॥६॥
वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः ।
आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥१२॥
दूषणं हि मुखरत्वमर्थिनाम् ॥१३॥
यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ॥१४॥
आलुपेन्द्रमददातिक्रमस्त्यक्तचापल मसाधु गर्वयत् ।
दीपयत्यरिनियाग्रदूतिका कोपमप्रणयिरेव तादृशाम् ॥२६॥
प्लावनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥
केसरी वसति यत्र भूधरे तत्र याति मृगराजतामसौ ॥३८॥
तेन तस्य वचनेन चारुणा प्राप कुन्तलपतिः प्रसन्नताम् ।
तीवरोपविषवेगशान्तये भेषजं विनय एव तादृशाम् ॥४७॥