विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 473, कुल 493 में से
संदर्भ में पढ़ें( २ )
श्लोकाः
लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः ।
स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः ॥२७॥
द्वितीयसर्गे—
फलं हि पात्रप्रतिपादनं श्रियः ॥ ॥२६॥
प्रियप्रसादेन विलाससम्पदा तथा न भूषाविभवेन गेहिनी ।
सुतेन निर्व्याजमलीकहासिना यथाङ्कपर्य्यङ्कगतेन शोभते ॥३२॥
किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः ।
ऋणं पितॄणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥३४॥
तृतीयसर्गे—
परां प्रतिष्ठां लिपिषु क्रमेण जगाम सर्वासु नरेन्द्रसूनुः ।
पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥१७॥
इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥
चतुर्थसर्गे—
शुभाशुभानि वस्तूनि सम्मुखानि शरीरिणाम् ।
प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥
न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसम्पदः ॥४६॥
उचिताचरणे केषां नोत्साहचतुरं मनः ॥६१॥
न कृच्छ्रेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ॥६७॥