विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 463, कुल 493 में से
संदर्भ में पढ़ें( ४६० )
मधुपानां भ्रमराणां यध्यः कान्तास्तासां केलयः क्रीडास्तासु गण्डूषा मुखपूर्तयः
'गण्डूषो मुखपूर्तौ स्यात्' इति हैमः । तेषां योग्यं तदर्थं पर्याप्तं सन्नद्धं प्रगुणीभूतं
समागतम् । माधवीलतासु मकरन्दाधिक्यं जातमिति भावः । दाक्षिणात्या
दक्षिणदिशात आगता मरुतो मलयानििलाः श्रमेण दूरदेशागमनपरिश्रमेण क्वचिदपि
कुत्रापि क्षणमपीषत्कालपर्यन्तमपि न विश्राम्यन्ति विश्रान्ति न काङ्क्षन्ति । अलिनां
भ्रमराणा कृते कौसुमा. पौष्पाः पांसुकूटा धूलिसमूहाः प्रतिकलं प्रतिक्षणं क्रीडा-
शैलीभवन्ति लीलापर्वतीभवन्ति लीलापर्वत इवाऽऽचरन्तीति भावः । अभूततद्भावे
च्च्विः । तत्तस्मात् कारणात् पुष्पाण्येव कुसुमान्येवाऽस्त्राणि शरा यस्य स पुष्पबाणः
कामस्तस्य मित्रं सखा तस्मिन् चैत्रे वसन्ते विद्यमाने सतीहाऽस्मिन् जगति विरहिणां
वियोगावस्थापन्नानां स्त्रीपुंसां जीवितस्य जीवनस्याऽऽशा कीदृशी किमिति । न
जीवनाशेति भावः । अर्थापत्तिरलङ्कारः । स्रग्धरावृत्तम् । "म्रभ्र्नैर्यानां त्रयेण
त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” इति लक्षणात् ।
भाषा
वासन्ती लताओं में मकरन्द, भौरियों के लीलागत कुल्ला करने के योग्य
तयार हो गया है । दक्षिण दिशा से बहने वाले मलया निल, थकावट से कहीं
भी विश्राम नहीं लेते है अर्थात् लगातार बहते ही रहते हैं । भौंरों के लिये
पुष्पधूलि के ढेर प्रतिक्षण क्रीडापर्वत का काम करते हैं । इसलिये कामदेव के
मित्र वसन्त के आने पर वियोगियों के जीते रहने की आशा कैसी ? अर्थात्
ऐसे समय में वियोगियों का जीते रहना सम्भव नहीं है ।
पुष्पैर्भ्राजिष्णुभस्त्राकरणिमगणितैः शाखिनः के न याता-
श्चञ्चन्निस्त्रिंशलेखामयमिव भुवनं भृङ्गमालाभिरास्ते ।
त्रैलोक्याकाण्डचण्डप्रहरणनिबिडोत्साहकण्डूलदोष्णः
पुष्पेशोर्जैत्रशस्त्रव्यतिकरविधये साधु सजो वसन्तः ॥६८॥
अन्वयः
के शाखिनः अगणितैः पुष्पैः भ्राजिष्णुभस्त्राकरणि न याताः । भृङ्ग-
मालाभिः भुवनं चञ्चन्निस्त्रिंशलेखामयम् इव आस्ते । त्रैलोक्याकाण्डचण्ड-
प्रहरणनिबिडोत्साहकण्डूलदोष्णः पुष्पेशोः जैत्रशस्त्रव्यतिकरविधये वसन्तः
साधु सज्जः ।