सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 460, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 460

( ४५७ )
भाषा
भौरों के लिये, फूलों में क्रीडापूर्वक स्नान करने योग्य अर्थात् अत्यधिक पुष्प-
रस ( मकरन्द ) उत्पन्न हो गया । पञ्चम स्वर, कोकिलों के कण्ठकुहरों में
स्थिर हो गया । जगत् का एक छत्र विजय प्राप्त करने की अभिलाषा रखने
वाले कामदेव का योद्धा चैत्र, अचानक ही, तीनों भुवनों को जीतने वाला हो
गया—यह एक आश्चर्य की बात है ।
भृङ्गेर्विश्ववियोगिवर्गदलनोत्तालस्य वैतालिकैः
प्रारब्धा विरुदावलीव पठितुं शृङ्गारबन्धोर्मधोः ।
नादः कोकिलयोषितां प्रमुषितत्रैलोक्यमानग्रहः
कामः सम्प्रति कौतुकाद्यदि परं पौष्पं धुनीते धनुः ॥६५॥
अन्वयः
वैतालिकैः भृङ्गैः विश्ववियोगिवर्गदलनोत्तालस्य शृङ्गारबन्धोः मधोः
विरुदावली पठितुं प्रारब्धा इव । प्रमुषितत्रैलोक्यमानग्रहः कोकिलयोषितां
नादः (प्रारब्धः) । यदि परं सम्प्रति कामः कौतुकात् पौष्पं धनुः धुनीते
(तर्हि धुनोतु नाम) ।
व्याख्या
वैतालिकै राज्ञां प्रातःकाले निद्राप्रबोधनस्तवस्तुतिकारकैः 'वैतालिको बोध-
कराऽमालिको याष्टिकाधेशः । हर्षामर्षोत्साहेतु मगण बन्दिनः स्तुतिपाठकाः'
इत्यमरः । भृङ्गैर्भ्रमरैर्विश्वेषां सर्वेषां वियोगिनां वियोगिस्त्रीपुंगवानां (पुंस्तान्-
धिग्येति-एकशेषः) वर्गं समूहस्तस्य दलनं संहारस्तस्मिन्नुत्ताल उत्कटस्तस्य सकल-
वियोगिसमूहसंहारोत्कटस्य शृङ्गारस्य स्त्रीपुंसोः परस्परं सम्भोगस्पृहाया बन्धुर्मित्रं
सहायक इत्यर्थः । तस्य, उक्तञ्च—"पुंसः स्त्रिया स्त्रियाः पुंसि सम्भोगं प्रति या
स्पृहा । स शृङ्गार इति ख्यातः क्रीडारत्यादिकारकः" ॥ तदा शृङ्गारस्य
कामस्य बन्धोर्मित्रस्य मधोर्वसन्तस्य विरुदावली यशःप्रशस्तीनामावली पङ्क्तिर्वि-
रुदावली 'योग्यालिरावलिः पङ्क्तिः श्रेणी रेखास्तु राजयः' इत्यमरः । पठितु-
मुच्चारयितुं प्रारब्धा इव । प्रमुषितो बलादिनाशितस्त्रैलोक्यस्य मानग्रहः कोपग्रहणं
येन सः कोकिलयोषितां पिकीनां नादः शब्दोऽपि प्रारब्ध इति भावः । यदि परं
यदि केवलं सम्प्रत्यधुना कामो मनोजः कौतुकात्कौतूहलात्पौष्पं कुसुममयं धनुः