विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 454, कुल 493 में से
संदर्भ में पढ़ें( ४५१ )
अन्वयः
त्र्यम्बकनेत्रवह्निः प्रियखण्डितानाम् अखण्डैः पापैः त्वां वियोगिवर्ग-
क्षयदीक्षितं नूनं महापातकितं वितर्क्य न पस्पर्श ।
व्याख्या
त्रीणि अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवस्तस्य नेत्रवह्निर्नयनाग्निः
शिवनेत्रवह्निः प्रियेण कान्तेन खण्डिता विरहितास्तासां विरहिणीनामथवा प्रियाः
खण्डिता सुदूरं गता यासां तासां वियोगिनीसम्बन्धिताभिरित्यर्थः । अखण्डैरतिमहद्भिः
पापैर्दुष्कृतैः प्राणापहरणरूपैरित्यर्थः । त्वां वसन्तं वियोगिनां विरहिणां वर्गस्य
समूहस्य क्षये नाशकार्य दीक्षितं समात्तदीक्षं सन्नद्धमत एव नूनं निश्चयेन महापा-
तकिनं महापापिनं वितर्क्य विचार्य न पस्पर्श न स्पृष्टवान् न दग्धवानित्यर्थः ।
भाषा
शङ्कर की आख की आगने, वियोगिनिओ के सम्बन्ध में किये हुए बड़े २
पापो से, तुम को विरही लोगो के समूह को नाश करने में लगे हुए अत एव
निश्चय पूर्वक महापातकी समझ कर, नहीं छूवा अर्थात् नही जलाया ।
हराहवे पञ्चशरं विमुच्य पलायितः क्षत्रपराङ्मुखस्त्वम् ।
अस्य क्षताङ्गस्य पुरोऽधुनात्र हा चैत्रचाण्डाल कथं स्थितोऽसि ॥५८॥
अन्वयः
क्षत्रपराङ्मुखः त्वं हराहवे पञ्चशरं विमुच्य पलायितः । हे चैत्र-
चाण्डाल ! अधुना अत्र क्षताङ्गस्य अस्य पुरः हा ! कथं स्थितः असि ।
व्याख्या
क्षत्रियकुलवाचकस्य क्षत्रशब्दस्याऽत्र लक्षणया क्षत्रियधर्मोऽर्थः । क्षत्रात्-
क्षत्रियधर्मात्पराङ्मुखो निरपेक्षस्त्यक्तक्षत्रियधर्मस्त्वं हरस्य शङ्करस्याहवो युद्धं
तस्मिन्, शङ्करेण सह संजाते युद्धे पञ्चशरं कामं 'कामः पञ्चशरः स्मरः'
इत्यमरः । विमुच्य परित्यज्य पलायितोऽपसृतः । प्राणभयात्तमेकाकिनं परित्यज्य
पलाय्य दूरं गत इत्यर्थः । चैत्र एव चाण्डालस्तत्सम्बोधने हे चैत्रचाण्डाल !
हे चैत्राधम ! अधुनेदानीमत्राऽस्मिन्प्रदेशे क्षतं भग्नं शरीरं गात्रं यस्य स तस्य
भग्नगात्रस्याऽस्य कामस्य पुरोऽग्रे हा खेदसूचकमव्ययम् । कथं केन प्रकारेण