सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 38, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 38

( १३ )
व्याख्या
पदानां शब्दानां रसगुणालङ्कारादिप्रत्यायकत्वेन चमत्कारित्वं प्रौढिस्तस्याः
प्रकर्षेणोत्कटत्वेन पुराणी प्राचीना या रीतिरथवा पुराणानां कवीनां या रीतिः
परिपाटी तस्या व्यतिक्रमः परित्यागः श्लाघ्यतमः प्रशस्यतमो भवति । अत्युच्चतया
स्फोटितानि दार्ढ्यातिशयात्त्रोटितानि विदारितानीत्यर्थः कञ्चुकानि कुचावरणा-
शुकानि यैस्तानि कान्तानां प्रेयसीनां कुचमण्डलानि स्तनमण्डलानि वन्द्यानि
स्तुत्यानि भवन्ति । अत्र दृष्टान्तालङ्कारः ।
भाषा
प्रौढि प्रकर्ष से अर्थात् रस गुण अलङ्कार आदि की विशिष्ट चमत्कृति के
प्राबल्य से, प्राचीनकाल से प्रचलित अथवा प्राचीन कवियों द्वारा प्रयुक्त पद-
विन्यास का यदि त्याग किया जाए तो वह प्रशंसनीय है । अत्यन्त उच्चता
तथा काठिन्य से चोली को फाड़ देने वाले रमणियों के स्तनमण्डल सराहना
करने योग्य होते हैं ।
व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् ।
न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥
अन्वयः
आवर्जितकोविदा अपि व्युत्पत्तिः जडानां रञ्जनाय न क्रमते ।
मौक्तिकच्छिद्रकरी शलाका टङ्किकायाः कर्मणि न प्रगल्भते ।
व्याख्या
आवर्जिता आकृष्टाः कोविदाः पण्डिताः 'विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः
कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः' । इत्यमरः ।
यया साऽऽवर्जितकोविदाऽपि पण्डितानामाकर्षिकाऽपि विशिष्टेत्यर्थः । व्युत्पत्तिर्नू-
तनकल्पना लौकिकरचनाकौशलं जडानां मूर्खाणां रञ्जनाय प्रसादायै न क्रमते न
समर्था भवति । मौक्तिकेषु मुक्तासु छिद्रं रन्ध्रं 'छिद्रं निर्व्यथनं रोधं रन्ध्रं श्वभ्रं
वपा सुषिः' इत्यमरः । करोतीति रन्ध्रकरी शलाका सूची टङ्किकायाः पाषाण-
दारणलोहकीलस्य 'टङ्कः पाषाणदारणः' इत्यमरः । कर्मणि कठिनपाषाणविदारणं
कर्तुं न प्रगल्भते न समर्था भवति । अत्र दृष्टान्तालङ्कारः ।