विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 37, कुल 493 में से
संदर्भ में पढ़ें( १२ )
व्याख्या
कवीनां काव्यरचयितॄणां गुणः प्रकर्षः साहित्यविद्यायां साहित्यविद्योपार्जने
तदनुशीलने च यः श्रमो निरन्तराभ्यासस्तेन वर्जितेषु रहितेष्वनाद्रेष्वरसिकेषु प्राणिषु
कुण्ठत्वं स्वप्रभावरहित्यमावाति प्राप्नोति हृदयङ्गमो न भवतीत्यर्थः । सहृदयाः
पण्डिताः साहित्यविद्यायां कृतभूरिश्रमा एव काव्यस्य यथार्थमाहात्म्यं जानन्ति
न तु मतिहीना अविद्वांस इति भावः । अङ्गनानां कामिनीनामनाद्रेषु तैलादि-
स्निग्धपदार्थाननुलिप्तेषु केशेषु कचेषु कृष्णागरोश्चन्दनकाष्ठविशेषस्य कस्तूरी
मिश्रितसुगन्धद्रव्यस्य वा धूपवासः सुगन्धः (अग्नौ सुगन्धद्रव्यं प्रक्षिप्य तद्धूमोपर्या-
र्द्रकेशानामनाद्रीकरणं लोके प्रसिद्धम् ।) किं कुर्याद्विडम्बनायैवेत्यर्थः । न तस्य
किञ्चिदुपयुक्तं फलम् । अत्र दृष्टान्तालङ्कारः ।
भाषा
कवियों का गुण (वैशिष्ट्य) साहित्यविद्या का अभ्यास करने में परिश्रम
न करने वाले तथा नीरस मनुष्यो पर अपना प्रभाव नहीं डाल सकता ।
स्त्रियो के स्निग्धता रहित सूखे हुए केशो में चन्दनविशेष या कस्तूरीमिश्रित
सुगन्धित द्रव्यो का धूप क्या कर सकता है । अर्थात् सूखे हुए केशो को
सुगन्धित धूप देने से उनमें सुगन्ध नहीं आ सकती ।
प्रौढिप्रकर्षेण पुराणरीति-व्यतिक्रमः श्लाघ्यतमः पदानाम् ।
अत्युन्नतिस्फोटितकञ्चुकानि वन्द्यानि कान्ताकुचमण्डलानि ॥१९॥
अन्वयः
पदानां प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाघ्यतमः । अत्युन्नति-
स्फोटितकञ्चुकानि कान्ताकुचमण्डलानि वन्द्यानि ।
१ "अत्र 'प्रौढि' पद प्राचीनालङ्कारिकस्वीकृतगुणविशेषमात्रपरमितिव्याख्या-
तु नोचितम् । तादृशार्थकरणे सहदुचितार्थप्रत्यायकत्वेन कवेरभिप्रायः स्फुटो न
स्यात् । अत्र तु 'प्रौढि' शब्देन कविप्रतिभाविशेषस्तन्मूलको ध्वन्यलङ्कारादि-
सन्निवेशश्च विवक्षित इति ।"
२ भावोऽयमत्रापि प्रदर्शित । अस्यप्रतिसमाधेय रतमद्वन्द्वस्य दूषणम् ।
स्फुटता कञ्चुकानां यन्नायातपादकरणीयताम् ॥ (सर्ग-८ श्लोकः ४५)