सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 300, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 300

( २८५ )
अन्वय.
अनयपङ्कशङ्कितः सः प्राप्तम् अपि तद्बलं सहसा न जघान । अप्र-
तक्यँभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि अगहनाः (भवन्ति) ।
व्याख्या
अनय एवाऽनीतिरेव पङ्कः कर्दमस्तस्माच्छङ्कितः शङ्कायुक्तस्स विक्रमाङ्क-
देवः प्राप्तं पश्चादागतमपि तस्य सोमदेवस्य बलं सैन्यं तद्वलं 'अनीकिनी बलं
सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । सहसा झटिति न जघान न सङ्घतवान् ।
अप्रतर्क्यमचिन्त्य भुजयोर्वाणोर्वीर्यं पराक्रमस्तेन शालन्ते शोभन्त इत्यप्रतर्क्यभुजवी-
र्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविधा विक्रमाङ्कदेवसदृशा सङ्कटेप्या-
पत्तावप्यगहना निराकुला भवन्ति । अत्राप्यर्थान्तरन्यासोऽलङ्कारः ।
भाषा
अनीति रूपी कीचड़ से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाने
पर भी उसका संहार नहीं किया । क्योकि कल्पनातीत भुजबल से शोभित
विक्रमाङ्कदेव जैसे लोग आपत्ति आजाने पर भी घबराते नहीं ।
अन्तः प्रतिभटक्ष्माभृतां निर्दयग्रहणनोद्यतं ततः ।
तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥
अन्वयः
ततः प्रतिभटक्ष्माभृताम् अन्तकः सः निर्दयग्रहणनोद्यतं सैन्यं तन्मद-
द्विरदपादचूर्णितं (सत्) एककवलं चकार ।
व्याख्या
ततस्सेनागमनानन्तरं प्रतिभटाः शत्रुरूपा ये क्ष्माभृतः पृथ्वीपालास्तेषां प्रति-
पक्षभूपालाना मन्तको यमः स विक्रमाङ्कदेवो निर्दयं दयारहितं क्रूरतापूर्वक-
मित्यर्थे । यद्ग्रहणं मारणं तदर्थमुद्यतं प्रवृत्तं संन्यं बलं ते प्रसिद्धा मदद्विरदा
मदान्धा गजास्तेषां पादैश्चरणैश्चूर्णितं मर्दितं सदेककवलमेकग्रासं क्षणमात्रेणैव
शीर्णमित्यर्थः । चकार कृतवान् । पृष्ठतः समागतं सोमदेवसैन्यं सहसाऽऽक्रम-
णोद्यतं दृष्ट्वा स्वगजपादघातद्वारा नाशितवानिति भावः । रूपकमलङ्कारः ।