सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 299, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 299

( २८४ )
भाषा
भय रूपी कीचड में फसे हुए सोमदेव के मन को अनेक युद्धो के बोझ को
खीचने में समर्थ, उसके मदोन्मत्त हाथी भी खीच कर बाहर न कर सके ।
अर्थात् विक्रमाङ्कदेव के भय से पीड़ित सोमदेव अनेक युद्धो में विजय प्राप्त
कराने वाले हाथियो के (शक्तिशाली गज सेना के) रहते हुए भी, शान्ति न
प्राप्त कर सका ।
स व्यसर्जयदथ क्वथन्मनाः पुष्कलं बलममुष्य पृष्ठतः ।
किं न सम्भवति चर्मचक्षुषां कर्म लुब्धमनसामसात्त्विकम् ॥५॥
अन्वयः
अथ क्वथन्मनाः सः अमुष्य पृष्ठतः पुष्कलं बलं व्यसर्जयत् ।
चर्मचक्षुषां लुब्धमनसां किम् असात्त्विकं कर्म न सम्भवति ।
व्याख्या
अथाऽनन्तरं 'मङ्गलाऽनन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ' इत्यमरः । क्वथद्द्रू-
यमानं मनश्चित्तं यस्य स सोमदेवोऽमुष्य विक्रमाङ्कदेवस्य पृष्ठतः पश्चात्
पुष्कलं पर्याप्तं 'श्रेयान् श्रेष्ठः पुष्कलस्यात्सत्तमञ्चातिशोभने' इत्यमरः । बलं
सैन्यं व्यसर्जयत् प्रेषितवान् । चर्मणश्चक्षूंषि येषां ते तेषामदूरदर्शिनां लुब्धं
लोभाकृष्टं मनो येषां ते तेषां लुब्धचेतसां किमसात्त्विकं तामसं कर्म कार्यं न
सम्भवति, अपि तु सर्वमेव तामसिकं कार्यं सम्भवतीति भावः । अत्राऽर्थान्तर-
न्यासोऽलङ्कारः ।
भाषा
इसके अनन्तर पीडित हृदय सोमदेव ने विक्रमाङ्कदेव के पीछे एक बडी
पलटन भेज दी । चर्मचक्षु अर्थात् अदूरदर्शी तथा लोभी मनुष्य कौन तामसिक
कार्य नही कर सकते अर्थात् ये सब प्रकार के दुष्कर्म कर सकते हैं ।
ग्रासमप्यनयपङ्कशङ्कितस्तद्वलं न सहसा जघान सः ।
अप्रतर्क्यभुजवीर्यशालिनः सङ्कटेप्यगहनास्तथाविधाः ॥६॥