सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 263, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 263

( २४६ )
तत्रावतीर्य धौरेयो धीराणां धरणीपतिः ।
स्नात्वा चण्डीशचरणद्वन्द्वचिन्तापरोऽभवत् ॥६६॥
अन्वयः
धीराणां धौरेयः धरणीपतिः तत्र अवतीर्य स्नात्वा चण्डीशचरणद्वन्द्व-
चिन्तापरः अभवत् ।
व्याख्या
धीराणां धैर्यवतां धौरेयो धुरीणः 'धूर्वहे धुर्य धौरेयधुरीणास्सधुरन्धराः'
इत्यमरः । धरण्या धरायाः 'धरा धरित्री धरणी' इत्यमरः । पतिः स्वामी
भूपतिराहवमल्लदेवस्तत्र तुङ्गभद्रानद्यामवतीर्य प्रविश्य स्नात्वा स्नानं विधाय
चण्ड्याः पार्वत्या ईशः पतिश्चण्डीशस्तस्य शिवस्य चरणद्वन्द्वस्य पादयुगलस्य
चिन्ता ध्यानं तत्र परो लग्नः शिवचरणयुगलध्यानतत्परोऽभवत् ।
भाषा
धीरों का अग्रणी वह आहवमल्लदेव राजा तुङ्गभद्रा नदी में उतर कर और
स्ना करके शकर भगवान् के चरण युगल के ध्यान में तत्पर हो गया ।
अदत्त चापरिच्छिन्नमखिन्नः काञ्चनोत्करम् ।
न कृच्छ्रेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ॥६७॥
अन्वयः
अखिन्नः (सः) अपरिच्छिन्नं काञ्चनोत्करं अदत्त च । महाभागाः
कृच्छ्रे अपि त्यागव्रतपराङ्मुखाः न (भवन्ति) ।
व्याख्या
अखिन्नः प्रसन्नमानसः स अपरिच्छिन्नममितं काञ्चनस्य सुवर्णस्योत्करं समूहं
अदत्त च दानपात्रेभ्यः समर्पितवांश्च । महाभागा महाभाग्यवन्तो जनाः कृच्छ्रेऽपि
कष्टे समापतितेऽपि त्यागव्रताद्दानानुष्ठानात्पराङ्मुखा विमुखा न भवन्ति ।
अत्रार्थान्तरन्यासो नामालङ्कारः । "सामान्यं वा विशेषो वा यदन्येन समर्थ्यते ।
यत्तु सोऽर्थान्तरन्यासस्साधर्म्येणेतरेण वा" ।