विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 258, कुल 493 में से
संदर्भ में पढ़ें( २३९ )
धनुष चला कर सब राजाओं को जीत कर लक्ष्मी प्राप्त करने वाला श्री
के समान अत्यधिक पराक्रमी, विक्रम चिह्न वाला अर्थात् विक्रमाङ्कदेव
पुत्र पाया है ।
तेनैव युवराजत्वं समारोप्य यशस्विना ।
एष साम्राज्यभारस्य वोढा सोमेश्वरः कृतः ॥५४॥
अन्वयः
यशस्विना तेन एव एषः सोमेश्वरः युवराजत्वं समारोप्य साम्रा-
भारस्य वोढा कृतः ।
व्याख्या
यशः कीर्तिर्विद्यते यस्य स यशस्वी तेन यशस्विना कीर्तिमत्ता तेन विक्रमाङ्क
देवेन एषोऽयं सोमेश्वरो मम ज्येष्ठपुत्रः सोमदेवो युवराजत्वं युवराजपद
समारोप्य प्रतिष्ठाप्य साम्राज्यस्य भारतस्य सकलराज्यकार्यभारस्य वोढा
धारयिता कृतः ।
भाषा
उस यशस्वी विक्रमादित्य ने ही मेरे ज्येष्ठ पुत्र सोमदेव को युवराज पद
पर बैठाकर सम्पूर्ण राज्य कार्य का भार उसको सौंप दिया ।
इति मे कृतकृत्यस्य माहेश्वरशिरोमणेः ।
गिरिजानाथनगरे समारोहणमुत्सवः ॥५५॥
अन्वय
इति कृतकृत्यस्य माहेश्वरशिरोमणेः मे गिरिजानाथनगरे समारोहणम्
उत्सवः (अस्ति) ।
व्याख्या
इतीत्थं कृतानि साधितानि कृत्यानि सर्वकार्याणि येन स तस्य कृतकृत्यस्य
सम्पादितसांसारिकसकलकृत्यस्य महेश्वरस्य शिवस्येमे इति माहेश्वराः शङ्कर-
भक्तास्तेषां शिरोमणिर्मूर्द्धन्यस्तस्य मे मम गिरिजायाः पार्वत्या नाथस्य शिवस्य