विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 253, कुल 493 में से
संदर्भ में पढ़ें( २३३ )
अन्वयः
हे कुमार आत्मानं दृढं विधेहि धीरतां मा अवधीरय एषः दुर्वाती-
प्रलयाम्बुदः व्यासिपर्ति ।
व्याख्या
हे कुमार ! हे राजकुमार ! विक्रमाङ्कदेव ! आत्मानं स्वं दृढं निश्चलं
विधेहि कुरु । धीरतां धैर्यं माऽवधीरय मा तिरस्कुरु । एष अग्रे कथनीयो
दुर्वार्तारूपोऽमङ्गल्यवृत्तान्तरूपः प्रलयाम्बुदः प्रलयकालिकमेघो व्यासिपर्ति व्यापारं
करोति । प्रलयकालिकमेघजन्यकष्टसमं कष्टप्रदां वार्तां श्रोतुं धैर्ययुक्तो
भवेति भावः ।
भाषा
हे राजकुमार ! विक्रमाङ्कदेव ! अपने को कड़ा बनालो । धैर्य मत छोड़ो ।
आगे कहा जाने वाला बुरा वृत्तान्त रूपी प्रलयकाल का मेघ अब व्यापार करने
जा रहा है । अर्थात् प्रलयकाल के मेघ से होने वाले कष्ट के समान कष्ट
देने वाली दुखद वार्ता अब मैं सुनाने जा रहा हूँ । इसलिये दृढ़ होकर
धैर्य से सुनो ।
आपाण्डुपाण्ड्यमालोल-चोलमाक्रान्तसिंहलम् ।
देवस्त्वद्विजयं श्रुत्वा भेजे सुखमयीं स्थितिम् ॥४५॥
अन्वयः
देवः आपाण्डुपाण्ड्यम् आलोलचोलम् आक्रान्तसिंहलं त्वद्विजयं
श्रुत्वा सुखमयीं स्थिति भेजे ।
व्याख्या
देवो राजाऽऽहवमल्लदेव आपाण्डुरासमन्तात्पाण्डुः पाण्डुरः 'हरिणः पाण्डुरः
पाण्डुः' इत्यमरः । पाण्ड्यः पाण्ड्यनृपो येन तमासमन्ताल्लोलश्चलश्चोलदेशभूपो
येन तमाक्रान्तः सिंहलः सिंहलद्वीपो येन तं तव भवतो विजयं दिग्विजयं श्रुत्वाऽऽ-
कर्ण्य सुखमयीं सुखैकानुभवभूतां स्थितिमवस्थां भेजे प्राप ।