सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 252, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 252

.( २३२ )
व्याख्या
अथाभ्यन्तरं वत्सलः पितृविषयकस्नेहवान् राजनन्दनो राजकुमार आसन्नं
समीपागतं कृतप्रणामं कृतनमस्कारं तं दूतं तातपादानां मम पितृचरणानां कुशलं
क्षेममस्तीति 'कुशलं क्षेममस्त्रियाम्' इत्यमर । पप्रच्छ पृष्टवान् ।
भाषा
इसके अनन्तर पास में आकर प्रणाम करने वाले उस दूत को पिता का प्रेम
रखने वाले राजपुत्र ने पिता जी कुशल तो है, ऐसा पूछा ।
पञ्चभिः कुलकं, पञ्चश्लोकात्मकं कुलक'मत्र समासमित्यर्थः ।
उपविश्य शनैः पार्श्वे स निरुत्साहया गिरा ।
कथयामास नासाग्र-विलुठद्बाष्पशीकरः ॥४३॥
अन्वयः
सः पार्श्वे शनैः उपविश्य नासाग्रविलुठद्बाष्पशीकरः (सन्) निरुत्साहया
गिरा कथयामास ।
व्याख्या
स दूतः पार्श्वे समीपे शनैर्मन्दमुपविश्य स्थित्वा नासाग्रे नासिकाग्रे विलुठन्ती
वर्तमाना बाष्पशीकरा अश्रुबिन्दवो यस्यैवं भूतस्सन् 'शीकरोऽम्बुकणा स्मृताः'
इत्यमरः । निरुत्साहयोत्साहशून्यया गिरा वाचा 'गीर्वाग्वाणी सरस्वती'
इत्यमरः । कथयामास उवाच ।
भाषा
वह दूत धीरे से पास में बैठ कर, नासिका के अग्रभाग में आंसू की बूंद से
युक्त होकर अनुत्साहित वाणी से बोलने लगा ।
विधेहि दृढमात्मानं मावधीरय धीरताम् ।
कुमार व्यापिपत्यैष दुर्वाताप्रलयाम्बुदः ॥४४॥
१ छन्दोयदपद पद्य तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मक सदानितक
त्रिभिरिष्यते । कलापक चतुर्भिश्च पञ्चभि कुलक मतम् ।
२ निरुत्सबमेत्यपि पाठ