सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 249, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 249

( २२९ )
स तत्क्षणात्परिम्लान-मुखं संमुखपातिनम् ।
ददर्श राजधानीतः प्रधानं दूतमागतम् ॥३७॥
अन्वयः
सः तत्क्षणात् राजधानीतः आगतं परिम्लानमुखं संमुखपातिनं प्रधानं
दूतं ददर्श ।
व्याख्या
स विक्रमाङ्कदेवस्तत्क्षणात् तस्मिन्नेव समये राजधानीत कल्याणपुरत आगत
प्राप्त परिम्लान म्लानिपुरीत मुखमाननं यस्य त चिन्तितवदनमित्यर्थ ।
समुखमग्रे पतति समागच्छतीति समुखपाती त समुखमागच्छन्त प्रधान विशिष्ट
दूतं सन्देशहर 'स्यात्सन्देशहरो दूत' इत्यमर । ददर्श दृष्टवान् ।
भाषा
उसी समय उसने कल्याणपुर से आए हुए उदास मुख वाले सामने उपस्थित
मुख्य दूत को देखा ।
अथ कुलकेन दूतं वर्णयति कविः—
अप्रियावेदने जिह्वा-मवगम्य पराङ्मुखीम् ।
कथयन्तमिवानर्थं श्वासैरत्यर्थमायतैः ॥३८॥
अन्वयः
अप्रियावेदने जिह्वा पराङ्मुखीम् अवगम्य अत्यर्थम् आयतैः श्वासैः
अनर्थं कथयन्तम् इव (तं राजनन्दनः पप्रच्छ ।) इति द्विचत्वारिंशत्तमेन
श्लोकेन सम्बन्धः ।
व्याख्या
अप्रियस्याशुभवृत्तान्तस्याऽऽवेदने कथने जिह्वां रसनां पराङ्मुखीं विमुखो-
मनुरुक्तामित्यर्थ । अवगम्य ज्ञात्वाऽत्यर्थमत्यन्तमायतैर्दीर्घं श्वासं श्वसनं
करणैरनर्थमनिष्टं कथयन्तमिव विज्ञापयन्तमिव (राजनन्दन पप्रच्छेति द्विचत्वा-
रिशत्तमश्लोकेन सम्बन्ध ) । अत्रोत्प्रेक्षालङ्कार ।