विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 139, कुल 493 में से
संदर्भ में पढ़ें( ११६ )
मेरा मन सदैव बड़ों का अपमान करने से विरत रहा है। ऐसी परिस्थिति
में मेरे लिये पुत्ररूपी वस्तु प्राप्त करने का उपाय दुर्लभ नहीं हो सकता।
किमस्ति दुष्प्रापमसौ निषेव्यते कुलप्रभुर्बालमृगाङ्कशेखरः ।
करस्थितस्यापि चकोरलोचने न पात्रमालस्यहतास्तपस्विनः ॥४०॥
अन्वयः
असौ कुलप्रभुः बालमृगाङ्कशेखरः (यदि) निषेव्यते (तर्हि) किं दुष्प्रापम्
अस्ति। हे चकोरनयने आलस्यहताः तपस्विनः करस्थितस्य अपि पात्रं न ।
व्याख्या
असौ प्रसिद्धः कुलस्य वंशस्य प्रभुरिष्टदेवता बालोऽर्द्धो मृगाङ्कश्चन्द्रः शेखरं
शिरोभूषणं यस्य स शिवो यदि निषेव्यते सेवया प्रसन्नक्रियते तर्हि किं वस्तु
दुष्प्रापं दुर्लभमस्ति, न किमपीत्यर्थः । हे चकोरवच्चपले नेत्रे नयने यस्यास्त-
त्सम्बुद्धौ हे चकोरनयने चकोरचपलनयने आलस्येनाकर्मणा हता आलस्यवशी-
भूतास्तपस्विनो वराका करे करतले स्थितस्य विद्यमानस्याऽपि वस्तुन पात्रं
भाजनं न भवन्ति । कर्मशीलानामुद्योगिनां पुरुषाणां किमपि दुस्साध्यं नेत्यर्थः ।
अत्राऽर्थापत्यलङ्कारः ।
भाषा
अपने वंश के इष्टदेव चन्द्रशेखर शंकर की यदि उपासना की जाय तो कोई
वस्तु दुर्लभ नहीं है। हे चकोर के समान चञ्चल नेत्र वाली ! आलस से भरे
अकर्मण्य लोगों को, पास की वस्तु भी प्राप्त नहीं हो सकती है।
तदेष तावत्तपसे सह त्वया प्रभूतभावः प्रयते यतेन्द्रियः ।
विभावरीवल्लभखण्डमण्डनःस यावदायाति दयां जगद्गुरुः॥४१॥
अन्वयः
यत् प्रभूतभावः एषः (अहं) यतेन्द्रियः सन् त्वया सह तावत् तपसे
प्रयते यावत् विभावरीवल्लभखण्डमण्डनः जगद्गुरुः सः दयां आयाति ।