सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 138, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 138

( ११५ )
इत्यमरः। मुखं स्वाननं कवोष्णः कोष्णः 'कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु
तद्वति' इत्यमरः। बाडतो निश्वासस्तेन विधूसरो मलिनोऽधर अपरोष्ठो यस्मिन्
सत् कि किमर्थं करोषि विदधासि। अहमभीष्टमीप्सितं यद्वस्तु पुत्रप्राप्तिरूपं
तत्प्रतिबध्नन्ति प्रतिरुद्धन्ति तेषां कर्मणामिहजन्मनि पूर्वजन्मनि वा कृतानां दुष्कर्मणां
निग्रहार्थं समूलमुन्मूलनाय कृत आग्रह अभिनिवेशो येन स बद्धपरिकरोऽस्मि ।
भाषा
अब दुख दूर करो। अपने मुख को गरम श्वास से सूखे अधरोष्ठ वाला
क्यों बनाती हो। में पुत्र रूपी अभीष्ट सिद्धि के प्रतिबन्धक सम्पूर्ण इस जन्म
के या पूर्व जन्म के कर्मों को नष्ट करने के लिये कटिवद्ध हो गयो हूँ।
अधीतवेदोऽस्मि कृतः१ श्रुतागमः श्रमोऽस्ति भूयानितिहासवर्त्मसु ।
गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥३६॥
अन्वयः
(अहं) श्रुतागमः (सन्) अधीतवेदः अस्मि। इतिहासवर्त्मसु भूयान्
परिश्रमः कृतः। मनः गुरुषु सदा अवज्ञाविमुखम् अस्ति। धत् मया
अत्र अभ्युपायः न दुर्लभः।
व्याख्या
अहं श्रुता गुरुमुखादाकर्णिता आगमाः शास्त्राणि येन एवम्भूतस्सन् अधीताः
सम्यगभ्यस्ता वेदा ऋग्यजुस्सामाथर्ववेदा येन सोऽस्मि। इतिहासाना रामायण-
महाभारतादीनां वर्त्मसु तत्प्रतिपादितमार्गेष्वपि भूयान्महान्परिश्रमः कृतः। मम
मनः गुरुषु पूज्येषु सदा सर्वदैवावज्ञाया अपमानात्पराङ्मुखं विमुखमस्ति ।
तत्तस्मात्कारणादत्र पुत्रवस्तुनि मयाऽभ्युपायो न दुर्लभः किन्तु सुलभस्सु-
साध्यश्चेति भावः।
भाषा
मैने गुरुमुख से सब शास्त्रो का श्रवण कर वेदो को पढा है। रामायण-
महाभारतादि इतिहास प्रतिपादित मार्गों का परिश्रम से पालन किया है।
१ कृतश्रुतागम—इत्यपि पाठ ।