वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 97, कुल 355 में से
संदर्भ में पढ़ें७६ वेणीसंहारे नाटकं
जनपद्धतिर्भीषणः समीरणः । )
राजा—( सहर्षम् ) उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य
प्रसादादयत्नपरित्यक्तनियमया देव्यां सम्पादितोऽस्मन्मनोरथः । कथमिति ।
न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने
नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः ।
तन्व्या लग्नपयोधर भयवशादाबद्धमालिङ्गितं
भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो नु मे ॥ २० ॥
तथाप्युपवारात्तप्रत्यश्वानां भय युक्तम् ) तस्याः परिभ्रष्टाः ये वल्लभतुरङ्गमाः
श्रेष्ठाश्वाः तैः करणैः पर्याकुलीकृता अत्यन्त विदलिता जनपद्धतिः मनुष्यमार्गः येन
सः, भीषणः = भयावहः समीरणः = वायुः ।
वात्याचक्रम् = वायुसमूहः । अयत्नपरित्यक्तनियमया = अनायासेन त्यक्तव्रतया ।
अन्वयः—तन्व्या, भयवशात्, भ्रुकुटिः, न, न्यस्ता, बाष्पसलिलैः, लोचने, न,
आच्छादिते, अन्यतः, आननम् न, नीतम्, स्पृशन्, अहम्, सशपथम्, न वारितः,
लग्नपयोधरम्, आलिङ्गितम् आबद्धम्, ( अतः ) अस्याः, नियमस्य, भङ्क्ता, अयम्
भीषणमरुत्, न ( किन्तु ) मे, वयस्यः नु ॥ २० ॥
कथं मनोरथः सम्पादित इत्याह— न्यस्तेति — तन्व्या = भानुमत्या, भयवशात्,
भ्रुकुटिः = भ्रकुटिः, न, न्यस्ता = कृता, नियमस्थाया अलिङ्गने भ्रूभङ्गादिकरणं युक्तं
तन्न कृतमिति भावः । बाष्पसलिलैः = अश्रुभिः, लोचने = नेत्रे, न, आच्छादिते =
व्यापिते द्विवचनान्तमेतत् । अन्यतः = अन्यत्र 'सार्वविभक्तिकस्तसिल्' आननं =
मुखम, न, नीतम् = प्रापितं मुखपरिवर्त्तनं न कृतमिति भावः । स्पृशन् = अङ्गस्य
और झहराहट के शब्द से डरे हुए श्रेष्ठ घोड़े घुड़शाल से बन्धन तोड़कर मार्गों पर इधर-
उधर भाग रहे हैं।
राजा—( प्रसन्नता के साथ ) यह झञ्झावात दुर्योधन के लिये महान् उपकारक बन
गया है जिसकी अनुकम्पा से बिना किसी परिश्रम के व्रतनियमों को छोड़ देवी मेरे अभि-
लषित मनोरथ को सफल बनाई है । किस प्रकार —
इन्हें भौंह तिरछी भी न करना पड़ा अथवा न तो अश्रुविन्दुओं से आँखों को भरना
पड़ा, इन्हें मेरी ओर से मुख भी न मोड़ना पड़ा, स्पर्श करते समय शपथपूर्वक इन्हें मेरा
निषेध भी नहीं करना पड़ा, स्वयं भयवश होकर इस कोमलाङ्गी ने अपने स्तनों को दबा-
कर गाढ आलिंगन करना प्रारम्भ कर दिया । यह वायु इनके नियमों के उल्लंघन का
अपराधी भी न हुआ यह भीषण झन्झावात नहीं है, किन्तु यह मेरा परममित्र है ॥२०॥