सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 9, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 9

अत्र किञ्चिद्वक्तव्यम्
आचार्य श्री ब्रह्मदत्तद्विवेदी
(प्रिंसिपल, रामनिरञ्जनदासमुरारका-संस्कृत कालेज, पटना सिटी)
न्याय-व्याकरणाचार्य पं० रामदेवझामहाशयैर्विनिर्मितया प्रबोधिन्याख्य-
व्याख्यया संवलितं वेणीसंहारनाटकं परीक्षणस्पृशा दृशा निरीक्ष्य परमानन्द-
सन्दोहमविन्दम्।
अन्वय - प्रतिशब्द - कोश-भावार्थ-छन्दोऽलङ्कारप्रभृतिविविधविषयाणां
समीचीनतया सङ्कलनेन रुचिररचनाञ्चितमनोहरकलेवरमिदं पुस्तकं विपश्चि-
ताञ्चिरं प्रचुरमन्तः सन्तोषमाधातुमीष्टे। विशेषतोऽश्रमं परीक्षाकान्तारमन्ते-
वसतः प्रविविक्षून, अविचिकित्समुपकरिष्यतीति दृढं विश्वसन्नभ्युदीयमानाय
टीकाकर्त्रे परश्शतान् धन्यवादान् वितरति। इत्यलं पल्लवितेन।
निवेदनम्
अयि-विद्याविनोदविद्योतितमानसा मान्या विद्वज्जनाः सुहृज्जनाश्च!
छात्रक्लेशदर्शनेन दोदूयमानचेतास्तान् परीक्षान्धिं पारयितुकामोऽस्य व्याख्या-
विरचने पं० श्रीदेवनारायणझामहाशयेन प्रोत्साहितः, पं० श्रीवालकृष्णझा-
महोदयस्य, व्याकरणाचार्य पं० श्रीरामचन्द्रझामहोदयानाञ्च साहाय्येन
सम्पाद्य प्रबोधिनी व्याख्यासंवलितमिदं वेणीसंहारनाटकं भवतां समक्षं समु-
पाययन्, महानुभावत्रितयाय प्रकृतग्रन्थप्रकाशनेन छात्राणां विदुषां च महान्त-
मुपकारं विरचयते चौखम्बासंस्कृत-पुस्तकालयाध्यक्षाय, श्रेष्ठिवरश्रीजयकृष्ण-
दासगुप्तमहोदयाय च धन्यवादान् समर्पयन्, पुरुषसाधारणबुद्धया, समुपस्थिता-
नत्रत्यदोषान् स्वमहिम्ना परिमार्जयितुं समभ्यर्थयेऽहं तत्रभवतः श्रीमत इति।
टीकाकारः