सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 77, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 77

तिष्ठति । तदुपसर्पतु देवः ।
राजा—(दृष्ट्वा ।) आर्य विनयन्धर, गच्छ त्वं साङ्ग्रामिकं मे रथमुप-
कल्पयितुम् । अहमप्येष देवीं दृष्ट्वाऽनुपदमागत एव ।
कञ्चुकी—एष कृतो देवादेशः । ( इति निष्क्रान्तः । ) -
सखी—विअसहि, अवि सुमरिदं तुए । ( प्रियसखि, अपि स्मृतं त्वया । )
भानुमती—सहि, सुमरिदम् । अज्ज किल पमदवणे आसीणाए मम
अग्गदो एव्व दिव्वरूविणा णउलेन अहिसदं वावादिदम् । ( सखि स्मृतम् ।
अद्य किल प्रमदवन आसीनाया ममाग्रत एव दिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् ।
चेट्या । उपसर्पतु = प्रचलतु ।
साङ्ग्रामिकं = युद्धे गन्तुं योग्यम्, रथं = स्यन्दनम्, उपकल्पयितुम् = सन्नद्धं
कर्तुम् । एषः = उपस्थितः, अहमपि, अनुपदम् = अनुगम्, पश्चादित्यर्थः । 'अन्वगन्वक्ष-
मनुगेऽनुपदं क्लीवमव्ययम्' इत्यमरः । पदस्य पश्चादिति विग्रहे पश्चादर्थेऽव्ययीभाव-
समासः । देवीं = भानुमतीम्, दृष्ट्वा, आगत एवेत्यन्वयः ।
देवादेशः = भवदीयाज्ञा ।
भानुमत्या दृष्टं स्वप्नं वक्तुकामा सुवदना सखी भानुमती पप्रच्छ-प्रियसखीति ।
भवत्या यदुक्तं सव स्मरिष्यामीति, तत्कि स्मृतमित्यर्थः । अपिशब्दः प्रश्ने, 'अपि
सम्भावनाप्रश्नाशङ्कागर्हासमुच्चये' इति विश्वः ।
अतीताया रात्रेः पश्चार्द्धेनागामिन्याः पूर्वार्द्धेन सहितकालस्य अद्यतनशब्दार्थ-
त्वादतीतरात्रिखप्नकालेऽपि अद्यशब्दप्रयोगः । प्रमदवने = राज्ञीक्रीडावने, आसी-
नायाः = उपविष्टायाः मम, अग्रतः = पुरस्तात्, एव दिव्यरूपिणा=अतिसुन्दरेण,
नकुलेन = सर्पघातकजन्तुना, 'सपनोर' इति प्रसिद्धः । अहिशतं = सर्पशतं, व्यापादि-
तम् = मारितम् ।
परिचारित हो रही हैं, महाराज उनके समीप चलें ।
राजा—( देखकर ) आर्य विनयन्धर, युद्धार्थ रथ तयार करने के लिये तुम जाओ मैं
श्रीमती के दर्शनोपरान्त आ ही पहुँचा ।
कञ्चुकी—यह लीजिये महाराज की आज्ञा का पालन किया । ( चला जाता है )
सखी—प्रिय सहेली, क्या तुम्हें स्मरण हुआ ?
भानुमती—हाँ सखि, स्मरण हुआ ? ( याद आया ?) आज मैं प्रमदकानन में बैठी हुई
थी कि'मेरे समक्ष ही देवताओं के स्वरूप को लज्जित करने वाले किसी एक 'नेवले ने सैकड़ों
सर्पों को मार डाला ।