वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 75, कुल 355 में से
संदर्भ में पढ़ें५४ वेणीसंहारं नाटकं
बालोद्यानम् । तदवलोकयतु देवः । तथाहि—
प्रालेयमिश्रमकरन्दकरालकोशैः
पुष्पैः समं निपतिता रजनीप्रबुद्धैः ।
अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध-
संसूचितानि कमलान्यालयः पतन्ति ॥ ७ ॥
राजा—( समन्तादवलोक्य । ) विनयन्धर, इदमपरममुष्मिन्नुषसि रम-
णीयतरम् । पश्य —
प्रचुरकुन्दपुष्पसुगन्धिशीतलम् । अग्रतः=अग्रे, सार्वविभक्तिकस्तसिल् । बालोद्यानं =
नूतनं राज्ञः, साधारण वनम् । 'पुमानाक्रोड उद्यान राज्ञः साधारणं वनम्' इत्यमरः ।
अन्वयः—प्रालेयमिश्रमकरन्दकरालकोशैः, रजनीप्रबुद्धैः, पुष्पैः, समम्, निप-
तिताः, अलयः, अर्कांशुभिन्नमुकुलोदरसान्द्रगन्धसंसूचितानि, कमलानि, पतन्ति ॥ ७ ॥
अवलोकनार्होद्यानशोभां दर्शयति—प्रालेयमिश्रेति । प्रालेयमिश्रमकरन्दकरा-
लकोशैः=प्रालेयेन हिमेन मिश्रः स चासौ मकरन्दः पुष्परसः तेन करालः
उन्नततः कोशः मध्यं येषां तैः, रजनीप्रवुद्धैः = निशायां स्फुटितैः, पुष्पैः=
कुसुमैः, समं = साकम्, निपतिताः=अधोगताः, रात्रिविकसितपुष्पाणां प्रभाते
पतनात्तत्रस्था भ्रमरा अपि पतिता इति भावः । अलयः—भ्रमराः, अर्कांशुभिन्न
मुकुलोदरसान्द्रगन्धसंसूचितानि = अर्कस्य सूर्यस्य, अंशुभिः किरणैः, भिन्नानि यानि,
मुकुलानि कुड्मलाः तेषामुदरेषु ये सान्द्रगन्धाः निविडसुरभयः तैः, संसूचितानि
अनुमितानि, अवगतानीत्यर्थः । कमलानि = पद्मानि, पतन्ति = गच्छन्ति । अत्र
सहोक्तिः । तथैकस्थैवालेरनेकत्र सम्बन्धत्पर्यायार्थालङ्कारः । वसन्ततिलका छन्दः ।
'ज्ञेयं वसन्ततिलकं तभजा जगौ ग' इति लक्षणात् ॥ ७ ॥
उषसि=प्रभाते, रमणीयतरम्=सुशोभनम् ।
में इसकी शोभा अपूर्व हो जाती है, इसे महाराज देखें । जैसा कि—
रात्रि-काल में विकसित होनेवाले तथा नीहारकणविमिश्रित पुष्परस के कारण अधखुले
कोशवाले कुमुदपुष्पों की पतनदशा के साथ-साथ भ्रमर उनका परित्याग कर सूर्य की किरणों
से विकसित कमलकलिका के अन्दर से निकलते हुए गन्ध से प्रतीत होने वाले कमलों पर
टूट पड़ रहे हैं ॥ ७ ॥
: राजा—( चारों तरफ दृष्टि फैला कर ) विनयन्धर, इस प्रभातकाल में एक दूसरे प्रकार
की रमणीयता का अवलोकन कीजिये :—