वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 73, कुल 355 में से
संदर्भ में पढ़ें५२ वेणीसंहारं नाटकं
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ ५ ॥
कञ्चुकी—(कर्णौ पिधाय । सभयम् ।) शान्तं पापम् । प्रतिहतममङ्गलम् ।
राजा—विनयन्धर, किं मयोक्तम् ?
कञ्चुकी—
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥ २ ॥
एतद्विपरीतमभिहितं देवेन ।
राजा—विनयन्धर, अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वास-
इति कर्तृपदस्थाने कर्मपदं प्रयुक्तम् । पाण्डुसुतः = युधिष्ठिरः, संयुगे = सङ्ग्रामे,
स्वबलेन = स्वसेनया । न चिरात् = शीघ्रम्, सहभृत्यगणम् = भृत्यगणेन सहितम्,
सहशब्दस्य सादेशस्य वैकल्पिकत्वादिदं साधु । सबान्धवम् = बन्धुजनसहितम् ।
सहमित्रम्, सहानुजम् = सावरजम् , ससुतम् = सपुत्रम्, सुयोधनम्=दुर्योधनम् , निह-
न्ति = हनिष्यति । वर्तमानसामीप्ये लट् । अत्र इष्टस्य दुर्योधनस्य वक्तव्यादन्यद्भाव्य-
मस्तीति भ्रंशाख्यं नाट्याङ्गम् । तदुक्तं दर्पणे--
दृप्तादीनां भवेद् भ्रंशो वाक्यादन्यतरद्वचः ॥ इति ।
ललिताछन्दः--ससज्जा विषमे यदा गुरुः समरा स्याल्ललिता समे लगौ । इति
लक्षणात् ॥ ५ ॥
दुर्योधनाभिप्रायोनुसारेण कञ्चुक्याह--सहभृत्यगणमिति । कञ्चुकिवाक्ये पाण्डु-
सुतमिति द्वितीयान्तम् । सुयोधन इति प्रथमान्तम् । तथा च सुयोधनः पाण्डुसुतस्य
हन्तेति दुर्योधनाभिप्रायः प्रतिपादितो भवति ॥ ६ ॥
अनामन्त्र्य = अननुज्ञाय, वासभवनात्=शयनमन्दिरात् । प्रातः = प्रभाते,
निष्क्रान्ता = बहिर्गता । व्याक्षिप्तम् = विशेषेणाक्षिप्तम्, उद्विग्नमित्यर्थः । किं
सुयोधन का शीघ्र वध करेगा ॥ ५ ॥
कञ्चुकी—(कान के छिद्रों को बन्द कर भयपूर्वक) पाप शान्त हो, अमंगल का
नाश हो ।
राजा—विनयन्धर मैने क्या कहा ?
कञ्चुकी—'दुर्योधन अपने पराक्रम से भाई, बन्धु, पुत्र मित्र तथा नौकर-चाकर समेत
शीघ्र पाण्डुपुत्र का संहार करेगा' ॥ ६ ॥
इसके पितरीत महाराज ने कहा ।
राजा—आज भानुमती पूर्ववत् मुझ से परामर्श न करके प्रभातकाल में ही घर से