वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 68, कुल 355 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ४७
बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥ २ ॥
सर्वथा दैवं नः स्वस्ति करिष्यति तद्यावदवस्थां देवीं महाराजस्य
निवेदयामि । ( इति निष्क्रान्तः । )
विष्कम्भकः ।
( ततः प्रविशत्यासनस्था देवी भानुमती, सखी चेटी च । )
सखी—सहि भाणुमदि, कीस दाणि तुमं सिविणअ दंसणमेत्तस्स किदे
अहिमाणिणो महाराअदुज्जोहणस्स महिसी अविअ एव्वं विअलिअधीर-
यस्य तस्य, अत्र धनुषश्चेति प्राप्तसङोऽभावस्तु समासान्तविधेरनित्यत्वादेव । च,
बालस्य=अल्पवयस्कस्य, अभिमन्योः = अर्जुनपुत्रस्य, वधात् = हननात्, अयं =
दुर्योधनः, प्रीतः=प्रसन्नः, अस्तीति शेषः । पराक्रमिणो भीष्मस्य पातनाद् दुःख-
स्थानेऽपि दुःखाभावः बहुभिर्महारथिमिलित्वाऽसहायस्याभिमन्योर्वधात् हर्षस्थाना-
भावेऽपि हर्ष इति ध्वनितमनेन श्लोकेन । अत्र भीष्मपातनरूपतापकारणस्य सत्त्वे-
ऽपि तापरूपकार्याभावाद् विशेषोक्तिरलङ्कारः । तथोत्तरार्द्धे बालस्य बहुकर्तृकवधेन
हर्षकारणाभावेपि हर्षरूपकार्यस्य सत्त्वाद्विभावनालंकारः । शार्दूलविक्रीडितं छन्दः ।
लक्षणमुक्तं प्रथमश्लोके ॥ २ ॥
दैवं=भाग्यम्, नः=अस्माकम्, स्वस्ति = मङ्गलं करिष्यतीत्यन्वयः ।
विष्कम्भक इति । भूतस्य भीष्माभिमन्युवधस्य भविष्यतोऽन्तःपुरविहारस्य च
सूचनादस्य विष्कम्भकत्वं तदुक्तम्—
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षिप्तार्थस्तु विष्कम्भ आदावंकस्य दर्शितः ॥ इति ।
अयं शुद्ध एव विष्कम्भः, तदुक्तम्—
मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः । शुद्धः स्यादिति ।
सेनापतिवधवर्णनेऽपि न विष्कम्भकत्वहानिः विष्कम्भकेऽधिकारिणः एव वध
वर्णननिषेधात् । तदुक्तं दर्पणे—विष्कम्भकाद्यैरपि न वधो वाच्योऽधिकारिणः । इति ।
शत्रुओं ने काट डाला था और अनेक युवा धनुर्धर शत्रुओं पर विजय प्राप्त करने से थका
हुआ था, वधसे महाराज प्रसन्न हैं ॥ १ ॥
भगवान् सब तरह से कुशल करेंगे । तब तक यहाँ ठहरी हुई महारानी की सूचना
महाराज को दे दें ( निकल पड़ता है ) ।
( विष्कम्भक )
( सखियों और चेटियों के साथ भानुमती देवी का प्रवेश )
सखी—सखि, भानुमति, क्या कारण है कि तुम मानी महाराज दुर्योधन की स्त्री