वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 51, कुल 355 में से
संदर्भ में पढ़ें३० वेणीसंहारं नाटकं
भीमसेनः—कि नामास्मादप्यधिकतरम् । बुद्धिमत्तिके, कथय ।
कौरव्यवंशदावेऽस्मिन्क एव शलभायते ।
मुक्तवेणीं स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ १९ ॥
चेटीः—सुणादु कुमालो । अज्ज क्खु देवी अम्बासहिदा सुभद्दाप्व-
मुहेण सवत्तिवग्गेण परिवुदा अज्जाए गन्धारीए पादवन्दणं कादुं गदा।
( शृणोतु कुमारः। अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेन सपत्नीवर्गेण परिवृता
आर्याया गान्धार्याः पादवन्दनं कर्तुं गता । )
भीमसेनः—युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः ।
अन्वयः —कौरव्यवंशदावे, अस्मिन्, ( कृष्णां ) धूमशिखाम्, इव, बद्धवेणीम्,
एनाम्, कृष्णाम्, स्पृशन्, कः, एषः, शलभायते ॥ १९ ॥
कौरव्येति । कौरव्यवंशदावे = कौरव्यः वंश इव । उपमितसमासः । मानसराज
हंसवद्, वंशस्य श्लेषेण निर्देशः, एकस्य कुलमर्थः । अन्यस्य वेणुः । तस्मिन् यो दावः
दवाग्निः, तस्मिन् कौरव्यवंशदावे, अस्मिन् = मयि, भीमे, कृष्णां नीलाम्, कृष्णा
तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि इत्यमरः । धूमशिखाम् = धूमकेतुम्, इव,
मुक्तवेणीम् =अबद्धकेशवेशाम्, एनाम्=उपस्थिताम्, कृष्णाम्=द्रौपदीम्, स्पृशन्=छुपन्
एषः, शलभायते = पतङ्गायते, पतङ्ग इवाचरतीत्यर्थः । कौरव्यवंशेत्यत्र लुप्तोपमा
कौरव्यवंशदावेत्यत्र रूपकं व्यङ्ग्योपमा, एतेषामङ्गाङ्गिभावात् सङ्करः । पध्यावक्त्रं
छन्दः ॥ १६ ॥
सुभद्राप्रमुखेन = कृष्णस्वसृप्रधानेन, सपत्नीवर्गेण = समानः पतिर्यस्याः सा
सपत्नी, तस्याः वर्गेण समुदायेन, परिवृता = युक्ता, अम्बासहिता =कुन्तीसंयुक्ता,
देवी, आर्यायाः, गान्धार्याः=धृतराष्ट्रपत्न्याः पादवन्दनम्=चरणवन्दनां, कर्तुम्, अद्य,
खलु, गता, इत्यन्वयः । खल्विति वाक्यालङ्कारे ।
ततस्ततः = तदनन्तरम् ।
भीमसेन—क्यों ! बुद्धिमत्तिके, इससे भी बढ़कर ! तो कहो, कहो ।
बांस वृक्ष के सदृश कुरुवंश के इस दावाग्नि में धूमशिखा के सदृश बद्धकेश-पाशा पाञ्चाली
से विरोध कर कौन व्यक्ति फतिंगे की भाँति जल भुनकर विनष्ट होना चाहता है ॥ १९ ॥
चेटी—कुमार सुनें । आज महारानी माता के साथ सुभद्रादि सपत्नियों को लेकर पूज्या
गान्धारी ( माता ) के चरणों में नमस्कारार्थ गई थीं ।
भीमसेन—यह तो उचित ही है, बड़े लोग अभिवन्द्य हैं ही—तो फिर !