सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 46, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 46

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५
द्रौपदी—( सहर्षम् । जनान्तिकम् । ) णाह, अस्सुदपुव्वं खु दे एदिसं
वअणं । ता पुणो पुणो दाव भणाहि । (नाथ, अश्रुतपूर्वं खलु त ईदृशं वचनम् ।
तत्पुनः पुनस्तावद्ब्रूहि । )
( भीमसेनोऽशृण्वन्नेव 'मथ्नामि कौरवशतम्' ( १।१५ ) इति पुनः पठति । )
सहदेवः—आर्य, किं महाराजस्य सन्देशोऽयमार्येणाव्युत्पन्न इव गृहीतः ।
भीमसेनः—कः पुनरत्र व्युत्पत्तिः ।
सहदेवः —आर्य ! एवं गुरुणा सन्दिष्टम् ।
भीमसेनः —कस्य ।
सहदेवः —सुयोधनस्य ।
रूपेण सन्धि = सन्धानम्, करोतु=सम्पादयतु । प्रतिमुखरूपः सन्धिेश्च, एतल्लक्षणं च—
आनुषङ्गिककार्येण क्रियते यत्प्रकाशनम् ।
नष्टस्येवेह बीजस्य तद्धि प्रतिमुखं मतम् ॥ इति । वसन्ततिलकाछन्दः ॥ १५ ॥
सहर्षम् = सानन्दम् । जनान्तिकम् = रङ्गदर्शकसमीपे, अयोन्मन्त्रणम्, तदुक्तं
दर्पणे —अन्योऽन्यामन्त्रणं यत्स्यात्तज्जनान्ते, जनान्तिकम् । इति ।
अश्रुतपूर्वं = न श्रुतम्, अश्रुतम् पूर्वम् अश्रुतम् इति अश्रुतपूर्वम् 'सुप्सुपे'ति
समासः । ईदृशम् = पूर्वोक्तं 'मथ्नामी'त्यादि, ते = तव, वचनम् = वाणी, तत् =
तस्मात् पुनः पुनः = भूयोभूयः, तावत्, भण = निगद ।
आर्य=श्रेष्ठ, महाराजस्य = युधिष्ठिरस्य, सन्देशः = वाचिकं 'सन्देशवाग्वाचिकं
स्यादि'त्यमरः । आर्येण = भवता, अव्युत्पन्न इव = तात्पर्याविषय इव, किम्, किमिति
प्रश्ने, गृहीतः = अवगतः । तत्तात्पर्यानभिज्ञो भवान्, इत्यर्थः ।
अत्र = युधिष्ठिरवाक्ये, व्युत्पत्तिः = तात्पर्यम् । किं तात्पर्यमित्यर्थः ।
द्रौपदी—( प्रसन्न होकर सबके समक्ष ) स्वामिन्, आपके वचन अपूर्व हैं ऐसा कभी भी
श्रुतिगोचर नहीं हुआ था । अच्छा इसे फिर कहने की कृपा कीजिये ।
भीम—सहदेव, देखो ( मथ्नामि कौरवशतं ... श्लोक फिर पढ़ते हैं ) ।
सहदेव—क्या महाराज के सन्देश का रहस्य न समझकर आपने इसी प्रकार सुनकर
मान लिया ।
भीम—वह सन्देश क्या है ?
सहदेव—आर्य महाराज ने इस प्रकार सन्देश दिया है ।
भीम—किसे सन्देश दिया है ।
सहदेव—सुयोधन को ।