वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 348, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३२९
अकृपणमतिः कामं जीव्याज्जनः पुरुषायुषं
भवतु भगवन्भक्तिर्द्वैतं विना पुरुषोत्तमे ।
दयितभुवनो विद्वद्वन्धुर्गुणेषु विशेषवि-
त्सततसुकृती भूयाद् भूपः प्रसाधितमण्डलः ॥ ४६ ॥
कृष्णः—एवमस्तु । ( इति निष्क्रान्ताः सर्वे । )
इति षष्ठोऽङ्कः ।
अन्वयः—अकृपणमतिः, जनः पुरुषायुषम्, कामम्, जीव्यात्, हे भगवन्, द्वैतम्,
विना, पुरुषोत्तमे, भक्तिः, भवतु, दयितभुवनः, विद्वद्बन्धुः, गुणेषु, विशेषवित्, (भवतु)
सततसुकृती, भूपः, प्रसाधितमण्डलः, ( भवतु ) ॥ ४६ ॥
लोकस्य कल्याणार्थं युधिष्ठिरो वरमभ्यर्थयते—अकृपणेति । अकृपणमतिः =
क्षुद्रबुद्धिरहितः जनः, विशालबुद्धिरिति यावत्, पुरुषायुषम् = यावच्छास्त्रे पुरुषस्यायुः
निर्धारितं तावत्, शतं वर्षाणीति तु निकृष्टार्थः । तदुक्तं श्रुतौ—'शतायुर्वे पुरुषः'
इति । कामम् = यथेष्टम्, जीव्यात्, जीवधातोराशीषि 'आशिषि लिङ्लोटौ इति
लिङ् । (हे) भगवन्, द्वैतम् = भेदबुद्धिम्, विना, अद्वैतरूपेणेत्यर्थः । पुरुषोत्तमे =
पुरुषश्रेष्ठे त्वयि, भक्तिः=अनुरागः, जन इत्यस्य विभक्तिपरिणामेनाऽप्यन्वयः ।
भवतु, 'संसाराद् विरक्तानामभ्यर्हितत्वात्तदर्थं पूर्वं वरं याचित्वा संसारेष्वासक्तार्थं पश्चाद्
याचते—दयितेति । दयितभुवनः = प्रियसंसारः, विद्वद्वन्धुः=पण्डितबान्धवः सन् गुणेषु
विशेषवित्=विवेचकः, गुणज्ञ इति समुदितार्थः । भवतु एवं कृते सति विद्वद्भ्यो गुण-
प्राप्तेर्ज्ञानोदयात्तस्यापि संसारदुःखाद्विमुक्तिः स्यादिति भावः । सततसुकृती = सततं
पुण्यकर्माचारी, भूपः = नृपः, प्रसाधितमण्डलः==स्वायत्तीकृतदिङ्मण्डलः, भवतु ।
पृथिव्यां राजानः पुण्यवन्त एव भवन्त्विति भावः । हरिणी छन्दः ॥ ४६ ॥
इति पण्डितश्रीरामदेवज्ञान्यायव्याकरणाचार्येण मैथिलेन
विरचितायां प्रबोधिनीव्याख्यायां षष्ठोऽङ्कः ।
लोग कृपण और रोगों से व्यथित न होकर पुरुष की आयुर्दाय के अनुकूल जीवित रहें ।
हे भगवन् ! बिना किसी सन्देह के पुरुषोत्तम भगवान् में भक्ति हो । राजा समस्त लोकों से
प्रेम करते हुए, विद्वानों का पोषक बनते हुए और गुणों की महत्ता पर विशेष ध्यान देते
हुए सर्वदा समुज्ज्वल कार्यकारी हों ॥ ४६ ॥
कृष्ण—ऐसा ही हो । ( यह कह कर सब लोग चले जाते हैं ) ।
ग्राम, पखनपुर पो० वहरियावाद, जि० गाजीपुरनिवासी श्री आदित्य नारायण पाण्डेय
'शास्त्री' 'विशारद' के द्वारा अनूदित वेणीसंहार नाटक का छठा अङ्क समाप्त ।