वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 338, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३१९
युधिष्ठिरः—
जरासन्धस्योरःसरसि रुधिरासारसलिले
तटाघातक्रीडाललितमकरः संयति भवान् ॥ ४० ॥
भीमसेनः—आर्य स एवाहम् । तन्मुञ्चतु मामार्यः क्षणमेकम् ।
युधिष्ठिरः—किमपरमवशिष्टम् ।
भीमसेनः—सुमहदवशिष्टम् । संयच्छामि तावदनेन सुयोधनशोणितो-
क्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।
युधिष्ठिरः — गच्छतु भवान् । अनुभवतु तपस्विनी वेणी संहारमहोत्सवम् ।
भीमसेनः—( द्रौपद मुपमृत्य । ) देवि पाञ्चालराजतनये, दिष्ट्या वर्धसे
रिपुकुलक्षयेण ।
सारसलिले = रुधिरासारः रक्तसम्पातः स एव सलिलं यस्मिन्, तस्मिन्, जरा-
सन्धस्य = मगधराजस्य, उरःसरसि = वक्षोरूपजलाशये, संयति = संग्रामे, तटाघात-
क्रीडाललितमकरः = तटेषु आघात एव क्रीडा तया ललितः हृष्ट मकरः ग्राहः तत्तुल्यः,
ग्राह आनन्दार्थं तटाघातं करोतीति भावः । भवान्, अस्ति जरासन्धघात्येव भवान्
स्तीति भावः । अत्र परम्परितरूपकमलङ्कारः । शिखरिणी छन्दः ॥ ४० ॥
मुञ्चतु = त्यजतु क्षणमिति = 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया ।
सुमहत् = अत्यधिकम्, दुर्योधनशोणितोक्षितेन = दुर्योधनरुधिरलिप्तेन, पाणिना =
करेण, दुःशासनावकृष्टम् = दुःशासनेनाकृष्टम्, केशहस्तम् = केशसमूहम्, संयच्छामि =
बध्नामि । 'क्वचित् संयमयामि' इति पाठः । सत्वरम् = शीघ्रम् ।
तपस्विनी = द्रौपदी, वेणीसंहारमहोत्सवम् = वेणीसंहारः कबरीबन्धनम् स एव
महानुत्सवः तम्, अनुभवतु = साक्षात्करोतु ।
युधिष्ठिर—आप रणस्थली के बीच जरासन्ध के हृदयरूपी सरोवर में, जो रुधिररूपी
धारावर्षण के जल से पूर्ण है, तटाघात रूप क्रीडा में दक्ष मकर हैं ॥ ४० ॥
भीमसेन—आर्य ! वही मैं हूँ । एक क्षण के लिए महाराज मुझे अवकाश तो दीजिए ।
युधिष्ठिर—अब और क्या करना शेष रह गया है ?
भीमसेन—बड़ा भारी कार्य रह गया है। पहले मैं दुर्योधन के रक्त में सने हुए इस हाथ
से पाञ्चाली [ द्रौपदी ] की वेणी, जिसे दुःशासन ने खींच कर खोल दिया है, बाँध लूँ ।
युधिष्ठिर—जाइये आप, तपस्विनी अपनी वेणी सँवारे ।
भीमसेन—( द्रौपदी के समीप जाकर ) देवि ! पाञ्चालपुत्रि ! शत्रुकुल के नाश से
आपका कल्याण हो ।