वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 322, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०३
याय भीष्माय गुरवे प्रपितामहाय शान्तनवे । अयमपि पितामहाय विचि-
त्रवीर्याय । ( साश्रम् ) तातस्याधुनावसरः । अयं तावत्स्वर्गस्थिताय सुगृही-
तनाम्ने पित्रै पाण्डवे ।
अद्यप्रभृति वां दत्तमस्मत्तो दुर्लभं पुनः ।
तात ! त्वयाऽम्बया सार्धं मया दत्तं निपीयताम् ॥ २९ ॥
एतज्जलं जलजनीलविलोचनाय
भीमाय भोस्तव ममाप्यविभक्तमस्तु ।
ददाति—एप इति । गाङ्गेयाय=गङ्गापुत्राय 'शुभ्रादिभ्यश्चे'ति ढक्प्रत्ययः । 'आय
नेयीति' एयादेश । शन्तनो राज्ञः प्राक् परिणीता स्त्री गङ्गाऽऽसीत् । तातः = पितः ?
भवते = पूज्याय, सुगृहीतनाम्ने = सुगृहीतं प्रातः स्मरणीयं नाम यस्य, तस्मै ।
अन्वयः—( हे ) तात ! वाम् दत्तम्, पुनः, अद्य, प्रभृति, अस्मत्तः दुर्लभम्,
अम्बया, सार्धम् त्वया, एतद्, दत्तम् ( जलम् ) निपीयताम् ॥ २९ ॥
( हे ) तात = पितः ! वाम्=युवाभ्याम्, दत्तम् जलमिति शेषः ( 'वारीदमि'ति
पाठे—इदम्, वारि ) पुनः. अद्य प्रभृति=अद्यारभ्य, अस्मत्तः = अस्मत्, 'पञ्चम्यास्त
सिल्' इति तसिल् । दुर्लभम् = दुष्प्राप्यम्, अतः अम्बया = विमात्रा माद्र्या सार्द्धम्,
त्वया = पित्रा, एतत्, क्वचिन्मयेति पाठः । दत्तम् जलमिति शेषः । निपीयताम् =
पीयताम् । अत्र पाने प्रति पूर्वार्द्धवाक्यार्थो हेतुरिति काव्यलिङ्गमलङ्कारः । पथ्या
वक्त्रं छन्दः ॥ २९ ॥
अन्वयः—जलजनीलविलोचनाय, भीमाय, ( दत्तम् ) एतत्, जलम्, भोः, वत्स,
तव, मम, अपि, अविभक्तम्, अस्तु तु, पिपासितः, ( त्वम् ) एकम्, क्षणम्, विरम्
त्वया, सह, पातुम्, अयम् ( अहम् ), जवात्, आगतः, अस्मि ॥ ३० ॥
मयैवसार्द्धं त्वया जलं पेयमहर्माप भस्मीभूत्वाऽगत एवेत्याह = एतदिति । जलज
नीलविलोचनाय = जलजं कमलं तद्वन्नीले विलोचने नेत्रे यस्य तस्मै, भीमाय,
दत्तमिति शेषः । एतत्, जलम्, भोः वत्स ! तव = भीमस्य, मम, अपि, अविभक्तम्=
जलाञ्जलि पितामह विचित्रवीर्य के लिए है । ( अश्रुकलुषत नेत्रों से ) अब पिता की वारी है ।
यह सलिलाञ्जलि स्वर्गवासी आदरणीय पिता पाण्डु के लिए हैं ।
आज से यह जल हमलोगों से मिलना दुर्लभ हो जायगा, पिताजी ! माता माद्री के साथ
मेरे दिये हुए जल को पी लीजिये ॥ २९ ॥
यह तोयाञ्जलि ( जलाञ्जलि ) अविभक्त ( बिना बाँटी हुई ) रूप से कमल के सदृश
नील नेत्रशाली भीमसेन के लिए भी है । वत्स ! तुम तृषार्त हो तो भी