वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 314, कुल 355 में से
संदर्भ में पढ़ें· षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९५
अपि च। बाल्ये संवर्धितस्य नित्याभिमानिनोऽस्मत्सदृशहृदयसार-
स्यापि नकुलस्य ममाज्ञया वचने स्थातव्यम्। नानुगन्तव्याऽस्मत्पदवी।
त्वया हि वत्स,
विस्मृत्यास्माञ्छ्रुतिविशदया स्वाग्रजौ चात्मबुद्ध्या
क्षीणे पाण्डावुदकपृषतानश्रुगर्भान् प्रदातुम् ।
अन्यथा तर्पणाभावे पितृगणस्याधोगतिः स्यादिति भावः। अत्र विषयभेदादे-
कस्यैवानेकधोल्लेखादुल्लेखो नामाऽलङ्कारः, हरिणी छन्दः॥ २४ ॥
बाल्ये संवर्धितस्येति = अनेक नकुलेऽधिकस्नेहो दर्शितो भवति। नित्यमभिमानिन
इति-अनेक अभिमानाद् दुर्योधनस्यानानुवर्त्तने पुनः कलहशान्तिर्न स्यात्तथाच तवापि
शरीररक्षणाऽसम्भवं स्यात् तच्च न भवेदित्या कर्तव्यमिति सूचितम्। नकुलस्य सहदेव-
ज्येष्ठत्वेनानुशासनमयुक्तमित्यत आह = ममाज्ञयेति। अस्मत्पदवी = मम मार्गः, मर-
णेन भ्रात्रनुसरणरूपः।
अन्वयः—श्रुतिविशदया, आत्मबुद्ध्या, अस्मान्, स्वाग्रजौ, च विस्मृत्य, पाण्डौ,
क्षीणे (सति) उदकपृषतान्, अश्रुगर्भान्, प्रदातुम्, दायादानाम्, अपि तु, भवने,
यादवानाम्, कुले, वा कान्तारे वा, कृतवसतिना, शरीरम्, रक्षणीयम् ॥ २५ ॥
केनाप्युपायेन पित्रे जलदानार्थं शरीरं रक्षणीयमित्याह—विस्मृत्येति। श्रुतिवि-
शदया = वेदविशुद्धया, आत्मबुद्ध्या = स्वीयकर्त्तव्याकर्त्तव्यविचाररतज्ञानेन, अस्मान्,
'एकवचनं न प्रयुञ्जीते' त्यादिवचनात्बहुवचनप्रयोगः। स्वाग्रजौ = भीमार्जुनौ, च,
विस्मृत्य, पाण्डौ, पितरि, क्षीणे=समूलं नष्टे, अस्मासु सत्सु न पाण्डोर्विनाशः
'आत्मा वै जायते पुत्रः' इति वचनात्, अस्माकमभावे युवयोरपि रक्षाऽसम्भाव्येति
साम्प्रतं पाण्डुविनाश इति भावः अश्रुगर्भान् = नेत्राश्रुमिश्रितान्, उदकपृषतान्=
जलविन्दून् 'पृषन्ति बिन्दुपृषताः' इत्यमरः। प्रदातुम् = दानार्थम्, दायादानाम्=
और भी—
'बडबुद्धि, नित्याहङ्कारी नकुल को, जिसके हृदय का तत्त्व हम लोगों के समान ही हैं
आज्ञापालन में लगे रहियेगा। हम लोगों के मार्ग का अनुसरण न कीजिएगा (अथ
प्राणत्याग न कीजिएगा)'
आप प्रिय भ्रातः !
शास्त्राध्ययन से स्वच्छ बुद्धि के कारण अनुजों के साथ-साथ हम लोगों को भूलकर
पाण्डु के अश्रुबिन्दु रूप जल से सने हुए पिण्डों का दान करने के लिए दायादों [कौरवों]
के घर या यदुवंशियों के वंश में या किसी गहन वन में कुटी बना कर शरीर की रक्षा
करना ॥ २५ ॥