सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 302, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 302

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८३
द्रौपदी—णाह भीमसेण, तुए किल मे केसा संजमिदव्वा । ण जुत्तं
वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुम् । ता पडिवालिहि मं जाव
उवसप्पामि । ( पुनर्मोहमुपगता । ) ( नाथ, भीमसेन, त्वया किल मे केशाः
संयमयितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्प्रतिपालय
मां यावदुपसर्पामि । )
युधिष्ठिरः — ( आकाशे । ) अम्ब पृथे, श्रुतोऽयं तव पुत्रस्य समुदाचारः ।
मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासन्धशत्रो, किं नाम
वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथवा मयैव
बहूपलब्धम् !
दत्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे
द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे ।
तया चैतद्वचसा सम्भावयामि भीमस्य मृत्युमित्याकूतम् । अत्र द्वितीयचरणे लुप्तोपमाऽ-
लङ्कारः, चतुर्थे उल्लेखः । पृथ्वी छन्दः ॥ १८ ॥
संयमयितव्याः = बन्धनीयाः । शिथिलयितुम् = उपेक्षितुम्, एतेन प्रतिज्ञापूर्ति
करिष्यस्येवेति ध्वनितम् । उपसर्पामि = समीपमागच्छामि ।
समुदाचारः = व्यवहारः, इत्थं न कर्तव्यं तेनेति भावः । अल्पायुषि = अल्पदिव-
सजीविनि, वैपरीत्यम् = चिरायुष्ट्वविरुद्धसूचकम्, किं नाम, समालोकितं, जनेनेत्य-
न्वयः । उपलब्धम् = प्राप्तं दृष्टमिति यावत् ।
अन्वयः — करदीकृताखिलनृपाम्, मेदिनीम्, मे, दत्त्वा, यत्, लज्जसे, मया,
द्यूते, पणीकृतोऽपि, यच्च, न क्रुध्यसि, हि, प्रीयसे, मम, स्थित्यर्थम्, मत्स्यराजभवने
यत्, सूदताम्, प्राप्तः, असि, ( हे ) वत्स !, ते, सहसा, विनश्वरस्य, एतानि,
चिह्नानि, दृष्टानि ( मया ) ॥ १९ ॥
किमुपलब्धमित्याह—दत्त्वेति । करदीकृताखिलनृपाम् = करदीकृताः अखिलाः,
द्रौपदी—स्वामिन् वृकोदर ! मेरी वेणी आपको बाँधना है । वीर क्षत्रिय के लिए प्रतिज्ञा
ढीली करना उचित नहीं, अतः मैं आपके समीप आ रही हूँ आप अपनी प्रतिज्ञा पूर्ण कीजिए
( फिर मूर्च्छित हो जाती है )
युधिष्ठिर — ( आकाश को देखकर ) मातः पृथे ! ( कुन्ति ! ) यह अपने पुत्र का दुःखद
वृत्तान्त सुनो ! मुझ असहाय को अकेला विलखते हुए छोड़कर वह न मालूम कहाँ चला
गया ! हे तात जरासन्ध के शत्रु ! आपके इतने ही समय के अल्पायु में लोगों ने क्या उलटा
विचारा था अथवा मैंने ही बहुत सा वैपरीत्य पाया था ।
कर न देने वाले समग्र भूमण्डल के राजाओं को करदाता बनाकर पृथ्वी को मुझे