वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 301, कुल 355 में से
संदर्भ में पढ़ेंAn exact line-by-line transcription of the text from the image into Devanagari script:
२८२ | वेणीसंहारं नाटकं
द्रौपदी - ( संज्ञामुपलभ्योत्थाय च । ) महाराज किं एदं वह्ठइ । (महाराज,
किमेतद्वर्तते । )
युधिष्ठिरः—कृष्णे, किमन्यत् ?
स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा
मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः ।
गदापरिघशोभिना भुजयुगेन तेनान्वितः
प्रियस्तव समानुजोऽर्जुनगुरुर्गतोऽस्तं किल ॥ १८ ॥
एतद्=मुनिभिरुक्तम्, किं वर्तते = किमर्थकमस्ति कोऽभिप्राय इत्यर्थः ।
अन्वयः—सः, कीचकनिषूदनः, बकहिडिम्बकिर्मीरहा, मदान्धमगधाधिपद्विरद-
सन्धिभेदाशनिः, गदापरिघशोभिना, भुजयुगेन, तेन, अन्वितः, तव, प्रियः, मम,
अनुजः, अर्जुनगुरुः, अस्तम्, गतः, किल ॥ १८ ॥
मुनिभिरुक्तस्याभिप्रायमेवाह = स कीचकेति । सः = सर्वजनवेद्य, कीचकनिषू-
दनः = विराटश्यालस्य हन्ता, बकहिडिम्बकिर्मीरहा = बकासुरहिडिम्बासुरकिर्मीरना-
मकराक्षसानां हन्ता, मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः = मदान्धो यो मगधा-
धिपः जरासन्धः स द्विरदः हस्ती इव, उपमितसमासः । तस्य सन्धिभेदे जराराक्ष-
सीकृतसंश्लेषस्य, भेदने अशनिः वज्र, इव । अनेन विशेषणत्रयेण महापराक्रमिणो
वधो जात इत्येको महाखेदे हेतुः । गदापरिघशोभिना = गदा परिघ इव तेन शोभते
इति तथा भूतेन, तेन = प्रसिद्धेन, भुजयुगेन=युगः रथाङ्गकाष्ठविशेष इव भुजः तेन,
अथवा भुजयुग्मेन 'यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः । अन्वितः,
खेदे द्वितीयं हेतुमाह --तवेति । तव=स्त्रियाः, प्रियः=स्नेही तं विना त्वमपि जेवितुं न
शक्नोषीति भावः । तृतीयमाह—ममेति । मम, अनुजः =कनिष्ठभ्राता, कनिष्ठभ्रा-
तर्यतीव स्नेहो भवतीति तदभावेऽहमपि जीवितुं न शक्नोमीति भावः । चतुर्थहेतु-
माह-अर्जुनेति । अर्जुनगुरुः=अर्जुनस्य गुरुः श्रेष्ठः । श्रेष्ठस्य विपत्तौ स्वयमपि विपन्ने
एवेति भावः । एतेन नकुलसहदेवावपि न जीवितुं शक्नुत इति ध्वनितम् । अस्तम् =
विनाशम्, गतः किल इति सम्भावनायाम् 'वार्तासम्भाव्ययो. किल' इत्यमरः ।
द्रौपदी—( चैतन्य होकर और उठकर ) महाराज यह क्या है ?
युधिष्ठिर—कृष्णे ! और क्या है ?—
वह कीचक-निहन्ता बक, हिडिम्ब और किर्मीर का घाती; मदोन्मत्त मगधराजरूप वारण
[ हाथी ] की हड्डियों की सन्धियों को भग्न करने में वज्र के सदृश, गदा और मुद्गर से
सुशोभित दोनों बाहुओं से युक्त; आपका प्रियतम, मेरा कनिष्ठ भ्राता तथा अर्जुन का ज्येष्ठ
भ्राता [ भीम ] आज अस्त हो गया ॥ १८ ॥