सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 290, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 290

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७१
कञ्चुकी-(उपसृत्य ।) महाराज शिशिरसुरभिसलिलसम्पूर्णोऽयं भृङ्गारः
पानभाजनं चेदम् ।
युधिष्ठिरः-मुने, निर्वर्त्यतामुदन्याप्रतीकारः ।
राक्षसः ( पादौ प्रक्षाल्योपस्पृशन्विचिन्त्यः ) भोः, क्षत्रियस्त्वमिति मन्ये
युधिष्ठिरः-सम्यग्वेदी भवान् ।
राक्षसः-सुलभश्च स्वजनविनाशः सङ्ग्रामेषु प्रतिदिनमतो नादेयं भव-
द्भ्यो जलादिकम् । भवतु । छाययैवानया सरस्वती शिशिरतरङ्गस्पृशा
मरुता चानेन । विगतक्लमो भविष्यामि ।
गृहीतभृङ्गारः = गृहीतः भृङ्गारः- सुवर्णकृतजलपात्रविशेषः येन सः,
शिशिरसुरभिसलिलसम्पूर्णः = शीतलसुगन्धिजलभरितः, पानभाजनं = लघुजल-
पात्रम् इदम् अस्तीति शेषः ।
मुने = ऋषे ।
राक्षसं राक्षसत्वेनानवगच्छन् युधिष्ठिरः तं मुनिशब्देन सम्बोधयति । उदन्या-
प्रतीकारः = पिपासानिवारणम् । उदकस्येच्छेति उदन्या 'अशनायोदन्याधनाया' इति
सूत्रेण निपातनात्क्यच्, उदकस्योदन्नादेशश्च ।
प्रक्षाल्य = जलेन संशोध्य, उदस्पृशन्=आचामन्, आचमनं, कुर्वन्नित्यर्थः । मन्ये=
अवगच्छामि,
सम्यग्वेदी = यथार्थज्ञाता
प्रतिदिनसुलभस्वजनविनाशः = प्रतिदिनं दिने दिने सुलभः स्वजनस्य निजबन्धोः
विनाशः हननं संग्रामेषु = समरेषु, भवद्भ्यः = युष्मत्तः, न आदेयम् = ग्राह्यम् ।
बन्धुविनाशेनाशौच्याद्याप्तत्वादाशौचिनो जलग्रहणस्य शास्त्रे निषिद्धत्वादिति भावः ।
सरस्वती शिशिरतरङ्गस्पृशा=सरस्वत्याः तन्नामकनद्या यः शिशिरतरङ्गः शीतलवीचिः
कञ्चुकी-(समीप आकर) महाराज, ठण्डे और सुगन्धित जल से भरा हुआ स्वर्ण-
पात्र है और यह गिलास भी है ।
युधिष्ठिर - विप्रगिन् ! प्यास शान्त कीजिए ।
राक्षस-(पैर धोकर और आचमन करता हुआ सोचकर) भो ! मैं समझता हूँ-
तुम क्षत्रिय हो ।
युधिष्ठिर - आप ठीक समझते हैं ।
राक्षस-युद्ध में प्रतिदिन स्वजनों का मरण तो स्वाभाविक है, अतः आप लोगों का