सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 275, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 275

मां दुःशासनकोष्णशोणितसुराक्षीबं रिपुं भाषसे।
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे
मत्त्रासान्नृपशो ! विहाय समरं पङ्केऽधुना लीयसे ॥ ७ ॥
अपि च। भो मानान्ध,
पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य
प्रोन्मुक्तैः केशपाशैर्हंतपतिषु मया कौरवान्तःपुरेषु ।
मिति भावः। तत्रापि त्वं गदासहाय इत्याह = धत्से गदामिति। अद्यापि = इदानी-
मपि, गदाम् = शस्त्रविशेषम्, धत्से = धारयसि, अस्तु गदा, रिपोरभावात्कथं योध्-
व्यमित्यत आह - मामिति । माम् = भीमम, दुःशासनकोष्णशोणितसुराक्षीबम्
दुःशासनस्य यत्कोष्णं मन्दोष्णं शोणितं तदेव सुरा मद्यं तेन क्षीवं मत्तम्, रिपुम् =
'शत्रुम्, भाषसे = ब्रवीषि। शान्तोऽहं कथं योत्स्य इत्यत आह--दर्पान्ध इति। मधु-
कैटभद्विषि = मधुकैटभासुरशत्रौ, हरौ = कृष्णे, अपि, दर्पान्धः = उन्मत्तः सन्, उद्ध-
तम् = उच्छृङ्खलं यथा स्यात्तदेवम्, चेष्टसे = व्यापारं करोषि, यः खल्वेतादृशलवति
कृष्णेऽप्युद्धतः स कथं युद्धाद्विरतो भवेदिति भावः । हे नृपशो = नरेषु पशुतुल्यः ।
अधुना, मत्त्रासात् = मत्तो भयात्, समरम् विहाय = त्यक्त्वा, पङ्के = कर्दम,
लीयसे - प्रच्छन्नो भवसि। अत्र तर्जनोद्वेजनाभ्यां द्युतिर्नाम सन्ध्यङ्गं तदुक्तं दर्पणे ।
'तर्जनोद्वेजने प्रोक्ता द्युतिरिति ।' अत्रेन्दुकुलजन्मरूपोत्तमस्य पङ्कनिलयनरूपा-
धर्मस्य च संघटनाद्वादिपमालङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ ७ ॥
अन्वयः - मया, प्रसह्य, हतपतिषु, कौरवान्तःपुरेषु, (नत्सु) [ अत एव ]
प्रोन्मुक्तैः, केशपाशैः, पाञ्चाल्याः, क्रोधवह्निः, उपशमितप्रायः, एव, त्वया, भ्रातुः,
दुःशासनस्य, उरसः, नवम्, असृक्, (मया) पीयमानम्, निरीक्ष्य, क्रोधात्, भीम-
सेने, किम्, विहितम्, यत्, असमये, त्वया, अभिमानः, क्षतः ॥ ८ ॥
कौरवहननान्मम क्रोधस्तु शान्तः, अहङ्कारिणस्तव क्रोधः कथमसमये शान्त
इत्याह - पाञ्चाल्या इति । मया = भीमेन प्रसह्य = हठात् हतपतिषु = हताः पतयो
येषां तेषु, कौरवान्तःपुरेषु = कौरवाणाम् अन्तःपुराणि भूभुजां स्त्र्यगाराणि तेषु धृतराष्ट्र-
पुत्रवधुषु वैधव्यं प्राप्तासु सतीष्वित्यर्थः । अत एव प्रोन्मुक्तैः = अवद्धैः, केशपाशैः = कच-
अन्धे मधु और कैटभ के शत्रु विष्णु के अवतार भगवान् वासुदेव के विषय में असभ्यता का
व्यवहार करते हो । ऐ नराधम ! मुझ से भयभीत होकर तथा युद्ध से पराङ्मुख होकर अब
कीचड़ में आकर छिपे हो ॥ ७ ॥
और भी, हे मानान्ध ! कौरवरमणियों के पतिदेवों का मेरे द्वारा विनाश हो जाने पर
उनके केशकलापों के खोल देने के कारण कृष्णा की क्रोधाग्नि प्रायः ठंडी पड़ चुकी है। तुम्हारे