सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 260, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 260

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४१
धृतराष्ट्रः - वत्स, तत्रापि कोऽत्र दोषः । अवसानमिदानीं भरतकुलस्य ।
सञ्जय, किमिदानीं करोमि मन्दभाग्यः ? ( विचिन्त्य ) भवत्वेवं तावत् ।
सञ्जय, मद्वचनाद् ब्रूहि भारद्वाजमश्वत्थामानम् ।
स्मरसि न भवान्पीतं स्तन्यं विभज्य सहामुना
मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः ।
अनुजनिधनस्फोतच्छोकार्दातिप्रणयाच्च यद्-
वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥ ४१ ॥
संजयः—यदाज्ञापयति तातः । ( इत्युत्तिष्ठति । )
धृतराष्ट्रः—अपि चेदमन्यस्त्वया वक्तव्यम् ।
भेदः न काऽपि विशेषः इत्यर्थः । एवं सति मम क्रोधो युक्त एवेति भावः । मालिनी
छन्दः ॥
अवसानम् = अन्तम् । मम कुलं विनङ्क्ष्यत्येवेत्यर्थः ।
अन्वयः — अमुना, सह, विभज्य, स्तन्यम्, पीतम्, बाल्ये, त्वदङ्गविवर्तनैः, मम,
क्षौमम्, मृदितम्, च, भवान्, न, स्मरति; अनुजनिधनस्फीतात्, शोकात् ( कर्णे )
अतिप्रणयात्, च या, अस्य वचनविकृतिषु क्रोधः, त्वया, क्रियते, (तत्) मुधा ॥
स्मरतीति । अमुना = दुर्योधनेन, सह, विभज्य = समभागं कृत्वा, स्तन्यम् =
गान्धारीस्तनजन्यदुग्धम्, पीतम्, त्वयेति शेषः , बाल्ये = क्रोडस्थापनयोग्याव-
स्थायाम्, त्वदङ्गविवर्तनैः अङ्गलितद्रव्यविशेषैः, मम, क्षौमम् = सूक्ष्मम्, पट्टवस्त्रमि-
त्यर्थः । मृदितम् = मलिनीकृतम्, च, भवान् न, स्मरति । दुर्योधनतुल्यस्त्वमाव-
योरतस्त्वयाप्यावां रक्षणीयं क्रोधं मुक्त्वा योद्धव्यं चेति भावः । क्रोधत्यागकारण-
मेवाह— अनुजेति । अनुजनिधनस्फीतात् = भ्रातृमृत्युप्रक्षालितात् , शोकात्, अति-
प्रणयात्, कर्णे इति शेषः । च, यत्, अस्य दुर्योधनस्य, वचनविकृतिषु = वाक्य-
धृतराष्ट्र—पुत्र, तुम्हारा भी इसमें क्या अपराध ? अब भरतवंश का अन्तिम समय है ?
संजय ! मैं अभागा अब क्या करूँ ? ( सोचकर ) अच्छा ऐसा ही हो । संजय, मेरी ओर से
भारद्वाज से निवेदन कर दीजिए—
'क्या क्या आपको स्मरण है'—इस दुर्योधन के साथ बाँट कर आपने क्षीरपान किया है
और शैशवावस्था से लोट-लाट कर आपने मेरे रेशमी वस्त्रों को मर्दित कर दिया है।' अपने
छोटे भाइयों के संहार से उत्पन्न प्रबल शोक के कारण अथवा ( कर्ण के प्रति ) प्रेमाधिक्य से
इसके [ दुर्योधन के ] अप्रिय वचनों पर आप व्यर्थ ही क्रोध कर रहे हैं ॥ ४१ ॥
संजय—पिताजी की जो आज्ञा । ( खड़ा हो जाते हैं )
धृतराष्ट्र—और भी यह दूसरी प्रार्थना कह देना—
१६ वें०