वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 252, कुल 355 में से
संदर्भ में पढ़ें२३२ वेणीसंहारं नाटकं
वाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वाैव दर्पः ॥ ३० ॥
( भीमः क्रोधं नाटयति । )
अर्जुनः-आर्य, प्रसीद । किमत्र क्रोधेन ।
अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ ३१ ॥
भीमः-अरे रे भरतकुलकलङ्क,
अत्रव किं न विशसेयमहं भवन्तं
वीर्यातिरेकद्रविणम् = पराक्रमाधिक्यमेव द्रविणं धनं -तेन गुरुः अधिकः, मदः यस्य
तम्, 'अतिरिक्तः समधिकः' इत्यमरः । माम् = दुर्योधनम्, अजित्वाैव = जयमप्राप्येव,
दर्पः = अहंकारः, साम्प्रतं तेऽहंकारो न युक्त इति भावः । स्रग्धरा छन्दः ॥ ३० ॥
अन्वयः-हतभ्रातृशतः, दुःखी, एषः, वाचा, अप्रियाणि, करोति । ( यतः )
कर्मणा, न शक्तः, ( अतः ) अस्य, प्रलापैः, का व्यथा ॥ ३१ ॥
अस्य वचनाद्, क्रोधो न कार्य इत्याह-अप्रियाणीति ।
हतभ्रातृशतः=हताः भ्रातृशतं यस्य सः, अतएव, दुःखी, एषः=दुर्योधनः,
वाचा, अप्रियाणि = अपकारान्, करोति, परुषवचनं वक्तीत्यर्थः, यतः कर्मणा न,
शक्तः ऽऽ समर्थः ( अतएव ) अस्य, प्रलापैः = विरुद्धवचनैः, का, व्यथा = दुःखम् ।
एतद्वचनेन दु खं न कर्तव्यमतएव ते क्रोधो न युक्त इति भावः । अनुष्टुप् छन्दः ॥
अन्वयः-( हे ) कटुप्रलापिन्, ते, मद्गदाग्निनिभिद्यमानरणितास्थनि, शरीरे,
विघ्नम्, यदि, गुरुः, न, कुरुते, तदा, दुःशासनानगमनाय, अहम्, भवन्तम्, अत्रैव,
किं न, विशसेयम् ॥ ३२ ॥
अत्रैवेति । अहम्, भवन्तम् = दुर्योधनम्, अत्रैव = समरप्राङ्गणान् बहिरेव अथवा
शयरूपद्रव्य के कारण महान् अहङ्कारशाली मुझ [ दुर्योधन ] पर विजय पाए बिना ही तुम्हें
गर्व हो रहा है ॥ ३० ॥
[ भीम क्रोध की अभिव्यक्ति करता है ]
अर्जुन-आर्य ! क्षमा कीजिए । इस पर क्रोध करने से क्या लाभ ?
यह वचन से ही अहित करता है कर्म से अहित करने में समर्थ नहीं है । सौ भाइयों के
विनाश से व्यथित इस दुर्योधन के बकबकाने से कष्ट ही क्या है ॥ ३१ ॥
भीम-अरे अरे ! भरतवंश के कलङ्क ।
ऐ क्रूरभाषिन् [ दुर्योधन ] दुःशासन का अनुसरण करने के लिए यहीं पर तुम्हें क्यों