वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 245, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२५
निवारितसम्पातैरयमात्माऽश्रुवारिभिः ॥ २४ ॥
( नेपथ्ये कलकलं कृत्वा । )
भो भोः कौरवबलप्रधानयोधाः, अलमस्मन्नवलोक्य भयादितो गन्तुम् ।
कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठतीति ।
( सर्वे ससंभ्रममाकर्णयन्ति । )
( प्रविश्य संभ्रान्तः । )
सूतः—आयुष्मन्,
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
सर्वे—कश्च कश्च ।
मदीयः, आत्मा, अनिवार्यसम्पातैः = अनवरुद्धधाराभिः, अश्रुवारिभिः = अश्रु ने-
त्राम्बु एव वारीणि तैः, अभिषिक्त इति पूर्वोक्तस्यानुकर्षः, तथा च यथाभिषेकः,
जलेन भवति तथैव जलस्थानीयाश्रुभिर्मम सेनापत्येऽभिषेको जात इति भावः । अत्र
रूपकम् अनुष्टुप् छन्दः ॥ २४ ॥
अलम् = दैन्यम्, सुयोधनः = दुर्योधनः ।
अन्वयः—इतस्ततः, त्वाम्, पृच्छन्तौ, एकरथारूढौ, प्राप्तौ, सः, कर्णारिः स च,
वृत्तकर्मा, क्रूरः, वृकोदरः ॥ २५ ॥
प्राप्ताविति । इतस्ततः = यत्र कुत्र, त्वां पृच्छन्तौ = कस्मिन्नुद्देशे सुयोधनस्ति-
ष्ठती-त्यद्विषयकप्रश्नं कुर्वन्तौ, एकरथारूढौ = एकरथोयविष्टौ, प्राप्तौ, तौ द्वौ कौ इति
धारापात से गिरने वाले अश्रु जलों से स्वयं मैने इस सेनापति का अभिषेक कर लिया है ॥२४॥
( नेपथ्य में कोलाहल करते हुए )
अरे अरे ! कौरव सैन्य के प्रधान वीरो, हम लोगों को देखकर भय के कारण इधर-
उधर पलायन की कोई आवश्यकता नहीं । आप लोग बतलाइए—किस स्थान पर दुर्योधन
वर्त्तमान है !
( सभी व्याकुल होकर सुनते हैं )
( प्रवेश कर व्याकुलाहट के साथ )
सूत—चिरञ्जीविन् !
एक रथ पर बैठ कर महाराज को पूछते हुए पहुँच गए !
सब लोग—कौन, कौन !
१५ वे०