वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 213, कुल 355 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १९३
यत्संभावित इत्यहं न च हतो दुःशासनारिर्मया ।
तं दुःखप्रतिकारमेहि भुजयोर्वीर्येण बाष्पेण वा ॥ १२ ॥
दुर्योधनः- वयस्य कर्ण, किमिदं भ्रातृशतवधदुःखितं मामपरेण वाक्श-
ल्येन घट्टयसि । भद्र सुन्दरक, अथेदानों किमारम्भोऽङ्गराजः ।
सुन्दरकः- देव, अज्ज वि आरम्भो पुच्छीअदि । अवणीदसरोरावरगो
अप्पवहकिदणिच्चओ पुणोवि पत्थेण सद्ध समरं मग्गदि । (देव, अद्या-
प्यायम्भः पृच्छयते । अपनीतशरीरावरण आत्मवधकृतनिश्चयः पुनरपि पार्थेन सह
समरं मार्गयते । )
दुर्योधनः- (आवेगादासनादुत्तिष्ठन् ।) सूत, रथमुपनय । सुन्दरक,
पाण्डवा इत्यर्थः । जेयाः = जेतुं योग्याः, अनेन पाण्डवोपरि विजयः स्यादिति भावः ।
इति = पूर्वोक्तप्रकारेण, अहम्, यत्, सम्भावितः = आशाविषयः कृतः, त्वयेति शेषः ।
एतादृशसम्भावनाविषयेणापि, मया, दुःशासनारिः = दुःशासनशत्रुः भीमः, न च,
हतः, भीमाद् दुःशासनत्राणं कर्तव्यं भीमवधश्च कर्तव्यो मया तदुभयं न कृतमित्या-
शयः । अतः स्वयमेवेत्यध्याहारः, तथा च त्वं स्वयमेव, भुजयोः, वीर्येण = पराक्रमेण,
बाष्पेण = नेत्रजलेन, दुःखप्रतिकारं = दुःखविनाशोपायम्, एहि = प्राप्नुहि, युद्ध्वा
रुदित्वा वा दुःखप्रतीकारं कुर्वित्यर्थः । तत्राशक्तः सन् मरणायोद्यत इति गूढाभिप्रायः ।
शार्दूलविक्रीडितं छन्दः ॥ १२ ॥
वाक्शल्येन = वाक् शल्यः शङ्कुरिव तेन, 'वा पुंसि शल्यं शङ्कुरि'त्यमरः ।
शल्यः 'बर्धी' इति प्रसिद्धः शस्त्रविशेषः । घट्टयसि = पीडयसि ।
अपनीतशरीरावरणः = अपनीतं त्यक्तं शरीरावरणं कवचं येन सः, अत एव
आत्मवधकृतनिश्चयः = आत्मवधे कृतो निश्चयो येन सः । मानिनां मानधनत्वात्,
दुःशासनस्य वधेन मानस्य हानान्मरणार्थमुद्यत इत्यर्थः ।
धारणा मेरे विषय में तो आपकी थी। (परन्तु) मैंने दुश्शासन के शत्रु का वध नहीं किया ।
उस दुःख की प्रतिक्रिया भुजाओं के पराक्रम से अथवा अश्रु की वर्षा से कीजिये ।
दुर्योधन - मित्र कर्ण ! यह क्यों सौ भाइयों के वध से व्यथित मुझे एक दूसरे प्रकार
के वचनबाण से विद्ध कर रहे हो ? भाई सुन्दरक ! अब कर्ण ने क्या करना विचारा है ?
सुन्दरक-महाराज ! अब भी आरम्भ की बात पूछ रहे हैं ? शरीर-कवच को दूर
करके अपने वध का हृदय से निश्चय करके फिर भी अर्जुन के साथ युद्ध का अवसर देख
रहे हैं ।
दुर्योधन-(वेग के साथ आसन से उठता हुआ) सारथे ! रथ उपस्थित करो ।
१३ वे०