वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 165, कुल 355 में से
संदर्भ में पढ़ें१४४ वेणीसंहारं नाटकं
( उभावपि खड्गमाकृष्यान्योन्यं प्रहर्तुमुद्यतौ। कृप-दुर्योधनौ निवारयतः )
दुर्योधनः—आचार्यपुत्र, शस्त्रग्रहणेनालम् ।
कृपः—वत्स, सूतपुत्र, शस्त्रग्रहणेनालम् ।
अश्वत्थामा—मातुल, मातुल, किं निवारयसि । अयमपि तातनिन्दा-
प्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव ।
कर्णः—राजन्, न खल्वहं निवारयितव्यः ।
उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया ।
अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ४३ ॥
अश्वत्थामा—राजन्, मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पे-
तातनिन्दाप्रगल्भः = पितृनिन्दायां धृष्टः, धृष्टद्युम्नपक्षपातीति = धृष्टद्युम्नतुल्यः
अतोऽयं हन्तव्य इति भावः । न मां निवारयेत्यर्थः ।
अन्वयः—धीरसत्त्वैः अवज्ञया, उपेक्षितानाम्, क्रोधान्धैः अत्रासितानाम्, मन्दा-
नाम्, एषा, विकत्थना, भवति ॥ ४३ ॥
धीरसत्त्वैः = गम्भीरभावैः, वीरैः, अवज्ञया = अनादरेण उपेक्षितानाम् = औदा-
सीन्यं प्रापितानाम्, क्रोधान्धैः = कुपितैः, अत्रासितानाम् = भयमप्रापितानाम्,
मन्दानां = हीनशक्तीनाम्, एषा = वीरोऽहमित्याकारिका, विकत्थना = आत्मप्रशंसा,
भवति, अतो दण्डनीयोऽयमिति भावः । अनुष्टुप्छन्दः ॥ ४३ ॥
मद्भुजान्तरनिष्पेषसुलभ = मदीयो यो भुजौ तयोर्मध्ये यन्निष्पेषणं मर्दनं तेन
सुलभम्, असूनां = प्राणानाम्, अवसादनं = विनाशम्, आसादयतु = प्राप्नोतु,
( दोनों तलवार खींच कर एक दूसरे पर आघात करने की चेष्टा करते हैं। कृप और
दुर्योधन निषेध करते हैं ) ।
दुर्योधन—मित्र, आचार्यपुत्र ! शस्त्र न उठाइये ।
कृप—वत्स, सूतपुत्र ! शस्त्र उठाने की कोई आवश्यकता नहीं ।
अश्वत्थामा—मामा ! मामा ! क्यों मना करते हैं ? यह पिताजी की निन्दा में रत
सूतनीच धृष्टद्युम्न का पक्षपाती है ।
कर्ण—महाराज ! मुझे वारण न कीजिए ।
धीर वीर पुरुष क्रोधोन्मत्त होकर भी दण्डित किए बिना तिरस्कार की बुद्धि से जब दुष्टों
की उपेक्षा कर देते हैं तो वे इस प्रकार आत्मप्रशंसा करते ही हैं ॥ ४३ ॥
अश्वत्थामा—राजन् ! इसे छोड़िए, छोड़िए। मेरी भुजाओं के बीच पिसकर चूर्ण