सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 160, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 160

तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३९
जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले
क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यत् ॥ ३५ ॥
कर्णः- ( सक्रोधम् । ) अरे रे वाचाट, वृथाशस्त्रग्रहणदुविंदग्ध बटो,
निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् ।
यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ ३६ ॥
अपि च ।
सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
किम्, नाहमागत इत्यर्थः । स्तुतिवंशकीर्तनविदाम् = स्तुतिः वंशकीर्तनरूपा तत्
विदन्ति तेषाम्, सारथीनां = सूतानां, कुले, किम् अह, - जातः = उत्पन्नः, नेति भावः ।
यत् क्षुद्रारातिकृताप्रियम् = क्षुद्रशत्रुकृतापकारम्, अस्रेण = अश्रुणा, प्रतिकरोमि =
प्रतिक्रिया सम्पादयामि, अस्त्रेण = आयुधेन, न । आयुधेनैव प्रतिक्रिया करोमीति
भावः । शार्दूलविक्रीडितं छन्दः ॥ ३५ ॥
वाचाटः = वाचाल, बहुभाषिन्नित्यर्थः ।
अन्वयः - निर्वीर्यम् वा, सवीर्यं वा आयुधम्, मया न उत्सृष्टम् । यथा बाहु-
शालिना, पाञ्चालभीतेन, ते, पित्रा उत्सृष्टम् ॥ ३६ ॥
नाहं त्वत्पितृवद्भीतेरित्याह - निर्वीर्यमिति । निर्वीर्यं = पराक्रमरहितम्, वा
सवीर्यं = सपराक्रमम्, वा, आयुधम् = शस्त्रं, मया = कर्णेन, न, उत्सृष्टम् = त्यक्तम्,
मया ते = तव, बाहुशालिना = पराक्रमिणा, बाहुशालिनेति काक्वोच्यते अपराक्रमि-
णित्यर्थः । अथवा सत्यपि भुजद्वये कथं पाञ्चालाद्भीत इति व्यज्यत । पाञ्चालभीतेन =
धृष्टद्युम्नत्रस्तेन, आयुधम् त्यक्तमिति शेषः । अत्रोपमालङ्कारः । पथ्यावक्त्रं छन्दः ॥
अन्वयः - सूतः, वा, सूतपुत्रः, वा, यः वा, कः ( अपि ) वा अहम्, भवामि,.
कुले जन्म दैवायत्तम्, तु पौरुषम् मदायत्तम् ॥ ३७ ॥
यदुक्तं त्वं सारथि कुले जातस्तत्राह - सूतो वेति ।
तुम्हारी भाँति लोगों के कुल की प्रशंसा करने में लीन रथकारों के वंश में मेरा भी जन्म
हुआ है ? अर्थात् रात दिन बाबूजी कहकर जीविका प्राप्त करने वाले रथवानों के कुल में
जन्म हुआ है जिससे कि मैं क्षुद्र शत्रुओं के द्वारा किये गये अपकार का बदला आँसू से लूँ
और शस्त्र से नहीं ? ॥ ३५ ॥
कर्ण-( क्रुद्ध होकर ) अरे अरे वातूल व्यर्थ शस्त्रभारवाहक ! कुमार !!
पराक्रमी हो चाहे कायर मैने तो शस्त्र का त्याग नहीं किया जिस प्रकार धृष्टद्युम्न से
त्रस्त होकर भुजपराक्रमशाली तुम्हारे पिता ने किया ॥ ३६ ॥
और भी-
सूत हों चाहे सूत के पुत्र हों अथवा कोई हों। सत्कुल में जन्म देना विधाता के