सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 144, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 144

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १२३
ते किमनेनापकृतम् । अथवा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन,
सात्यके, बाहुशालिन्वृकोदर, माधव, युक्तं नाम भवतां सुरासुरमनुजलो-
कैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुर
मुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गममुपेतम् । अथवा
सर्व एवैते पातकिनः । किमेतैः -
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
मिथ्यास्वभावः तथा जिह्मं कुटिलं चेतः यस्य तेन, बाहुशालिन् = बृहद्भुजवन्,
वृकोदर = भीम, सुरेति सुराश्च असुराश्च मनुजाश्च तेषां लोकाः तत्रैको यो धनुर्धरः
तस्य सर्वलोकश्रेष्ठवीरस्येत्यर्थः । द्विजन्मनः = ब्राह्मणस्य, परिणतवयसः = वृद्धस्य ।
मनुजपशुना = मनुजः पशुरिव तेन । 'उपमितं व्याघ्रादिभिरिति' समासः । उत्त-
माङ्गं = शिरः, उपेतम् = उपेक्षितम् । सर्वे = अर्जुनादय , पातकिनः = पापवन्तः ।
तेषां द्रष्टृत्वादिति भावः ।
अन्वयः -यैः, मनुजपशुभिः, निर्मर्यादैः, उदायुधैः, भवद्भिः इदम्, गुरुपात-
कम्, कृतम्, अनुमतम्, दृष्टम् वा, नरकरिपुणा, सार्द्धम्, सभीमकिरीटिनाम् असृङ्मे-
दोमांसैः, अयमहम् दिशाम्, बलिम्, करोमि ॥ २४ ॥
पातककारणमेवाह । कृतमनुमतमिति ।
यैः मनुजपशुभिः = पशुतुल्यमनुष्यैः, उपमितसमासः । निर्मर्यादैः = युद्धमर्या-
दामतिक्रान्तैः, युद्धे हि मर्यादा यच्छस्त्रधारिणैव सह योद्धव्यं तच्चाद्य नास्ति । यद्य-
पिता ने ) तुम्हारे भाइयों का और तुम्हारा क्या अपकार किया है ? अथवा असत्यप्रकृति
के कारण कुटिल चित्तवाले से क्या प्रयोजन ! अर्जुन ! अर्जुन ! सात्यकि ! सात्यकि !!,
ऐ प्रचण्डभुजशाली वृकोदर ! ( भीम ) माधव ! ( श्री कृष्ण ) क्या आप लोगों को उचित
था कि-'देव, दानव, और मानवों के बीच एक मात्र धनुर्धर, ब्राह्मण, वृद्ध तथा सबके
आचार्य ( गुरु ) मेरे पिता का शिर इस द्रुपदवंश के कलङ्क, मनुष्य के रूप में साक्षात् पशु
धृष्टद्युम्न के द्वारा स्पर्श किये जाते समय उपेक्षा करें । अथवा ये सब के सब पापमूर्ति हैं ।
इन सबों से कहना ही क्या ?
जिन मनुष्यपशुओं ने मर्यादा की सीमा का विच्छेद करके इस ब्रह्महत्यारूप ( १ )
महापातक को स्वयं सम्पादित किया है, अथवा उसके लिए अनुमति प्रदान की है,
(१) ब्राह्मण, गुरु, स्त्री, बालक, गोत्र तथा निरस्त्र पुरुषों के वध को महापातक कहते हैं ।