वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 135, कुल 355 में से
संदर्भ में पढ़ें११४ वेणीसंहारं नाटकं
( विलोक्य । ) तदयं वत्सस्तिष्ठति । यावदुपसर्पामि ( उपसृत्य ससम्भ्र-
मम् । ) वत्स समाश्वसिहि समाश्वसिहि ।
अश्वत्थामा—( संज्ञां लब्ध्वा । सास्रम् ) हा तात, सकलभुवनैकगुरो,
( आकाशे । ) युधिष्ठिर, युधिष्ठिर,
आजन्मनो न वितथं भवता किलोक्तं मिथ्या
न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः ।
ताते गुरौ द्विजवरे मम भाग्यदोषात्
संसारे, वर्तसे, द्वितीय, अस्मिन्, केशग्रहे द्रोणस्येति शेषः । प्रजाः = जनाः, नूनं =
निश्चयेन, 'नूनं तर्केऽर्थनिश्चये' इत्यमरः । निःशेषिताः= विनष्टाः, भविष्यन्तीत्यध्या-
हारः । महाऽनिष्टस्य महानेव परिणामः स्यादिति भावः । पथ्यावक्त्रं छन्दः ॥१४॥
संज्ञां = चैतन्यम् लब्ध्वा = प्राप्य, सास्रम् = अश्रुसहितम्,
आकाश इति ।
युधिष्ठिराभावेऽपि युधिष्ठिर प्रति कथयतीति भावः ।
अन्वयः—भवता, आजन्मनः, वितथम्, न उक्तम्, किल, यत्, जनम्, न द्वेक्षि,
अतः, त्वम्, अजातशत्रुः, तत् सर्वम् मम, भाग्यदोषात्, द्विजवरे, गुरौ, ( मम )
ताते, एकपदे, एवं, कथं, निरस्तम् ॥ १५ ॥
अश्वत्थामा, आजन्मन इति ।
भवता = युधिष्ठिरेण । आजन्मनः = जन्मप्रभृति, वितथम् = असत्यम् न, उक्तम्
किल, यत् = यस्मात्, त्वम्, जनम् = लोकम् न, द्वेक्षि = द्वेषं करोषि, अतः त्वम्
अजातशत्रुः, इत्युच्यस इति शेषः, । तत् = मिथ्यावदनाभावादि, सर्वम् मम =
अश्वत्थाम्नः भाग्यदोषात् = दैवदोषात्, द्विजवरे = ब्राह्मणे, गुरौ = आचार्ये, ताते =
दूसरे केशग्रह में समस्त प्रजा का सर्वनाश अवश्यमावी है, अर्थात् एक द्रौपदी के बाल
खींचने के कारण यह दशा उपस्थित हुई अब दूसरे द्रोणके केशग्रह के बाद क्या दशा होगी ।
( भली प्रकार विचार कर ) यह पुत्र अश्वत्थामा बैठा हुआ है। समीप में चलूँ ।
( समीप जाकर व्याकुलाहट के साथ ) पुत्र, धैर्य धारण करो, धैर्य धारण करो ।
अश्वत्थामा—( चैतन्य होकर अश्रुपूर्ण नेत्रों से ) हा पिता समस्तलोक के एक मात्र
आचार्य ( आकाश की ओर देखकर ) युधिष्ठिर, युधिष्ठिर ।
जन्म से लेकर आपने असत्य भाषण कभी नहीं किया। आप किसी के प्रति द्वेषबुद्धि
नहीं रखते हैं इसलिए आप अजातशत्रु कहे जाते हैं। मेरे भाग्यदोष के कारण आपने