सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 129, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 129

१०८ | वेणीसंहारं नाटकं

सूतः—कुमार, अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते
पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव ।
अश्वत्थामा—( अश्रूणि विमुच्य । ) आर्य, कथय कथय कथं तादृग्भुज-
वीर्यसागरस्तातोऽपि नामास्तमुपगतः ।
किं शिष्यात् गुरुदक्षिणां गुरुगदां भीमप्रियः प्राप्तवान् ।
सूतः — शान्तं पापम् ।
अश्वत्थामा अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना ।
वीरपुरुषोचितां = शूरपुरुषयोग्यां, विपत्ति=मृत्युम् ।
तादृग्भुजवीर्यसागरः = तादृक् सर्वलोकवेद्यं भुजवीर्यं बाहुपराक्रमः सागर इव
यस्य सः ।
अन्वयः—भीमप्रियः शिष्यात् , गुरुगदाम्, गुरुदक्षिणाम्, किम्, प्राप्तवान् ,
उज्झितनयेन, जिष्णुना, अन्तेवासिदयालुः, आसादितः, किम् , गोविन्देन, सुदर्श-
नस्य, निशितम्, धारापथम्, प्रापितः, ( किम् ) एभ्यः, चतुर्भ्यति, गुरोः आपदम्,
अहं न शङ्के ।
श्लोकरूपेण अश्वत्थामा पितृघातविषयकप्रश्नमाह—किं शिष्यादिति ।
भीमप्रियः = भीमः प्रियो यस्य सः द्रोण इत्यर्थः । शिष्यात् = भीमात् , गुरु-
गदां = भीषणगदाम्, गुरुदक्षिणां = गुरुगदारूपां गुरुदक्षिणामित्यर्थः । किं प्राप्तवान् ,
किमिति प्रश्ने ।
शान्तं पापमिति — इदम् अवक्तव्ये उच्यते । इदन्न वक्तव्यमित्यर्थः । भीमगदा
न प्राप्तेति भावः ।
उज्झितनयेन—उज्झितः त्यक्तः, नयः नीतिः येन तेन, जिष्णुना—अर्जुनेन,
पुत्रप्रिय, हा त्रिलोक में एकमात्र धनुर्धर, हा परशुराम के साङ्गोपाङ्गशस्त्रविद्याऽध्ययनकर्ता., कहाँ
हैं ? मुझे उत्तर दीजिये ।
सूत—चिरंजीविन् , अधिक शोक न करें । पिता के शूरवरोयुक्तगति प्राप्त कर लेने पर
आप भी उन्हीं के सदृश पराक्रम से शोकसिन्धु का उल्लंधन कर सुख प्राप्त कीजिए ।
अश्वत्थामा—(आँसू पोंछकर) आर्य ! कहिए किस प्रकार वैसे बाहुपराक्रम के सिन्धु
पिता अस्त हो गए ?
क्या भीमप्रिय (तात) ने शिष्य से गुरुदक्षिणा में भीषण गदाप्रहार प्राप्त किया है !
सूत—शान्त, शान्त पाप की चरचा न कीजिए (अर्थात् ऐसा नहीं हो सकता) ।
अश्वत्थामा—क्या शिष्य पर दया रखनेवाले पिता पर अर्जुन ने नीति का विचार न
करके आक्रमण कर दिया !