वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 113, कुल 355 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page:
९२ वेणीसंहारं नाटकं
अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥ १ ॥)
यदि सिन्धुराजवधदिवस इव दिवसे दिवसे समरकर्म प्रतिपद्यतेऽर्जुनस्ततः पर्याप्त-
भरितकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व खलु यतो मे रुधिरप्रियो
भविष्यति । भवतु । शब्दायिष्ये तावत् । अरे रुधिरप्रिय रुधिरप्रिय, इत एहि । )
( ततः प्रविशति तथाविधो राक्षसः )
राक्षसः—( श्रमं नाटयन् । )
पच्चग्गहदाणं मंसए जइ उण्हे लुहिले अ लब्भइ ।
ता एशे मह पल्लिशमे क्खणमेत्तं एव्व लघु णश्शइ ॥ २ ॥
( प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं च लभ्येत ।
सञ्चितम् = उपचितम् अस्माभिरिति शेषः । शोणितम् = रुधिरम्, अनिशम् = सततम्,
पिबामि, च अहमिति शेषः । समरः = युद्धम् वर्षशतम् = शतं वर्षाणि, भवतु ।
वर्षशतमित्यत्र 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, एतेन जयद्रथवधदिवसे महा-
सङ्ग्रामः सञ्जात इति सूचितम् ॥ १ ॥
सिन्धुराजवधदिवसे = यस्मिन् दिने जयद्रथस्य वधो जातः तस्मिन् दिने, इव,
दिवसे दिवसे = प्रतिदिनम्, अर्जुनः, समरकर्म, प्रतिपद्यते = करोति कुर्यादित्यर्थः ।
यदि, ततः मांसशोणितैः = आमिषरुधिरैः, पर्याप्तभरितकोष्ठागारम् = पर्याप्तं यथा
स्यादेवं भरितं पूर्णम् कोष्ठागारम् धान्यादिस्थापनस्थानं यस्मिन् तत्, गृहम् मम,
भविष्यति । अत्रैकदेशान्वयोऽपि साधुरेव नित्यसापेक्षत्वात् । पर्याप्तभरितेत्यत्र स्तोकन-
श्सस्तनाभ्यामितिवत्समासः । रुधिरप्रियः = रुधिरं प्रियं यस्य सः, अथवा रुधिरप्रिय-
नामा राक्षसः । शब्दायिष्ये = आकारयामि ।
अन्वय—यदि प्रत्यग्रहतानाम्, मांसम्, उष्णम्, रुधिरम्, च लभ्येत, तत्,
मम, एषः, परिश्रमः, क्षणमात्रमेव, लघु, नश्येत् ॥ २ ॥
श्रान्तो राक्षसः श्रमक्रियां प्रदर्शयन्नाह—प्रत्यग्रहतानामिति ।
प्रत्यग्रहतानाम् = सद्योव्यापादितानाम्, अभिनवमृतानामित्यर्थः । मांसम्,
(घूमकर चारों ओर देखकर ) पता नहीं रक्त के प्रेमी मेरे पतिदेव कहाँ गए होंगे ? अच्छा
तो समराङ्गण में अपने प्राणवल्लभ का अन्वेषण करती हूँ । अच्छा, अब मैं चिल्लाकर बुलाती
हूँ । ऐ रक्तप्रेमी, इधर आइए, इधर आइए ।
( इसके अनन्तर उस राक्षस का प्रवेश )
राक्षस—( थकावट का अभिनय करते हुए ) तुरन्त के मरे हुए वीरों का यदि गरम-गरम
रक्त प्राप्त हो जाय तो मेरी सब थकावट शीघ्र ही नष्ट हो जाय ॥ २ ॥