वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 91, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ९१ )
रोध आवे, तौ वहां उस मुख्य अर्थके संबंधी, नहीं सुने हुए
पदार्थमें उस मुख्य अर्थकी लक्षणा करना, यह बात तौ सर्व
लोकों में प्रसिद्ध हैं ॥ ८१ ॥
अत्र शोणो धावतीति वाक्यवदजहल्लक्षणापि न स-
ङ्गच्छते । तत्र शोणगुणगमनलक्षणस्य वाक्यार्थ-
स्य विरुद्धत्वात्तदपरित्यागेन तदाश्रयाश्वादिलक्ष-
णायां तद्विरोधपरिहारसम्भवादजहल्लक्षणा सम्भ-
वति अत्र तु परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैक-
त्वस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन त-
त्सम्बन्धिनो यस्य कस्य चिदर्थस्य लक्षितत्वेऽपि
तद्विरोधाऽपरित्यागादजहल्लक्षणापि न सम्भव-
त्येव ॥ ८२ ॥
( सं०टी० ) द्वितीयं पक्षं दूषयतिअजलहल्लक्षणापि न संभ-
वतीत्याह । अत्र शोणो धावतीति । अत्र तत्त्वमसीतिवाक्ये
शोणो धावतीति वाक्यवत् अजहल्लक्षणापि न संभवतीत्य-
न्वयः। कुत इत्यत आह। तत्रेति । तत्र शोणो धावतीत्यादि-
वाक्ये शोणगुणस्य गमनासम्भवेन वाक्यस्य मुख्यार्थविरोधे
सति श्रूयमाणशोणपदं स्वार्थापरित्यागेन स्वाश्रयमश्वादिकं ल-
क्षयतीति युक्तम् । अत्र त्विति । अत्र तत्त्वमस्यादिवाक्ये त-
त्त्वंपदार्थस्य परोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य मुख्य-
वाक्यार्थस्य विरुद्धत्वात्परोक्षत्वापरोक्षत्वाद्यपरित्यागेन तत्त-