सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 85, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 85

संस्कृतटीका-भाषाटीकासमेत । (८५)
और “तत्-त्वम्” पद लक्षण होते हैं इसीको शास्त्र-
कार भागलक्षणा सम्बन्ध कहते हैं ॥ ७८ ॥
अस्मिन् वाक्ये नीलमुत्पलमिति वाक्यवद्वा-
क्यार्थो न सङ्गच्छते। तत्र नीलपदार्थनीलगुणस्य
उत्पलपदार्थोत्पलद्रव्यस्य च शुक्लपदादिव्या-
वर्त्तकतयाऽन्योन्यविशेष्यविशेषणरूपसंसर्गस्या-
न्यतरविशिष्टस्यान्यतरस्य वा तदैक्यस्य वाक्या-
र्थाद्गीकरणे प्रमाणान्तरविरोधाभावाद्वाक्यार्थः
सङ्गच्छते। अत्र तु तत्पदार्थपरोक्षत्वादिविशिष्टचै-
तन्यस्य त्वम्पदार्था परोक्षत्वादिविशिष्टचैतन्यस्य
चान्योन्यभेदव्यावर्त्तकतया विशेषणविशेष्यभा-
वसंसर्गस्य अन्यतरविशिष्टस्यान्यतरस्य वा तदै-
क्यस्य वाक्यार्थत्वाद्गीकारे प्रत्यक्षादिप्रमाणविरो-
धाद्वाक्यार्थो न सङ्गच्छते ॥ ७९ ॥
(सं०टी० )ननु यथा नीलोत्पलमिति वाक्ये नीलत्वविशि-
ष्टनीलगुणस्य उत्पलत्वविशिष्टोत्पलद्रव्यस्य च स्वव्यतिरिक्त-
शुक्लादिगुणांतरपटादिद्रव्यांतरव्यावर्त्तकत्वेन विशेषणविशेष्य-
भावनिरूपिततद्भिन्नसंसर्गस्य नीलगुणवैशिष्ट्यस्य वा वाक्या-
र्थत्वं तथेहापि तत्त्वमस्यादिवाक्ये तत्पदार्थस्य परोक्षत्वादिवि-
शिष्टेश्वरचैतन्यस्य त्वंपदार्थस्यापरोक्षत्वादिविशिष्टजीवचैतन्य
स्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभूतसर्वज्ञत्व-
किंचिज्ज्ञत्वोभयनिरूपितसंसर्गो वा सर्वज्ञत्वादिविशिष्टस्य