वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 82, कुल 145 में से
संदर्भ में पढ़ें( ८२ ) वेदान्तसार ।
दा तच्छब्दार्थस्यायंशब्दवाच्यार्थनिष्ठभेदव्यावर्तकतया विशे-
षणत्वं अयंशब्दार्थस्य व्यावर्त्यत्वाद्दिशेष्यत्वं यदा च स इ-
ति तच्छब्दवाच्यः तत्कालतेद्देशविशिष्टो देवदत्तपिंडः स अय-
मितीदंशब्दवाच्यादेतत्कार्लैतद्देशसंबंधविशिष्टादस्माद्देवदत्तपिं-
डान्न भिद्यत इति यदा प्रतिपद्यते तदायंशब्दवाच्यस्य तच्छ-
ब्दार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं तच्छब्दार्थस्य व्याव-
र्तकत्वाद्दिशेष्यत्वं तथा चायमेव सः स एवायमिति अन्योन्य-
भेदव्यावर्तकतया सोऽयंशब्दार्थयोः परस्परविशेषणविशेष्य-
भाव इत्यर्थः।उक्तं विशेषणविशेष्यभावं दार्ष्टांतिके योजयति।
तथात्रापीति । इहापि तत्त्वमसीति वाक्येपि त्वंपदवाच्यं यदप-
रोक्षत्वं किंचिज्ज्ञत्वादिविशिष्टं तत्पदवाच्यात्सर्वज्ञत्वादिवि-
शिष्टचैतन्यान्न भिद्यते इति यदा प्रतीयते तदा तच्छब्दार्थस्य
त्वंपदार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं त्वंपदार्थस्य व्या-
वृत्यत्वात् विशेष्यत्वं यदा च तत्पदवाच्ययत्तसर्वज्ञत्वादिवि-
शिष्टचैतन्यं त्वंपदवाच्यात्किंचिज्ज्ञत्वादिविशिष्टचैतन्यान्न
भिद्यत इति यदा प्रतीयते तदा त्वंपदार्थस्य तत्पदार्थनिष्ठभेद-
व्यावर्तकत्वेन विशेषणत्वं तत्पदार्थस्य व्यावृत्यत्वात् विशे-
ष्यत्वं तथा च त्वं तदसि तत्त्वमसीति तत्त्वंपदार्थयोः परस्परं
भेदव्यावर्तकत्वेन परस्परं विशेषणविशेष्यभाव इत्यर्थः ॥ ७७ ॥
( भा०टी० ) अब विशेष्यविशेषणभाव सम्बन्ध दिख-
लाते हैं। जैसे-पहले कहे हुए “ सोऽयं देवदत्तः” इस वा-
क्यमें “ सः” पदका अर्थ पहले देखी हुई व्यक्तिका बो-